काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 238, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २३१ आवश्यकाधमर्ण्ययोर्णिनिः ॥ १७० ॥ अवश्यं भाव आवश्यकम् । उपाधिर्यं नोपपदम् । अवश्यंभावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति । अवश्यंकारी । मयूरव्यंसकादित्वात्समासः । आधमर्ण्ये खल्वपि । शतंदायी । सहस्रदायी । निष्कंदायी ॥ कृत्याश्च ॥ १७१ ॥ आवश्यकाधमर्ण्ययोरिति वर्तते । कृत्यसंज्ञकाश्च प्रत्यया आवश्यका- धमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति । भवता खलु अवश्यं कटः कर्तव्यः । अवश्यं करणीयः । अवश्यं कार्यः । अवश्यं कृत्यः । आधमर्ण्ये । भवता शतं दातव्यम् । सहस्रं देयम् । किमर्थमिदम् । यावता सामान्येन विहिता अस्मि- न्नपि विषये भविष्यन्ति । विशेषविहितेन णिनिना बाध्येरन् । कर्तरि णिनिः । भावकर्मणोः कृत्याः । तत्र कुतो बाधप्रसङ्गः । तत्र के चिदाहुः । भव्यगेया- दयः कर्तृवाचिनः कृत्यास्तद्भोदाहरणमिति ॥ शकि लिङ् च ॥ १७२ ॥ शक्नोति प्रकृत्यर्थविशेषणम् । शक्त्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति । चकारात्कृत्याश्च । भवता खलु भारो वोढव्यः । वहनीयः । वाह्यः । भवान् खलु भारं वहेत् । भवानिह शक्तः । सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूदिति ॥ आशिषि लिङ्लोटौ ॥ १७३ ॥ आशंसनमाशीः । अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा । प्रकृत्यर्थविशेषणं चैतत् । आशीर्विशिष्टे वर्तमानाद्धातोर्लिङ्लोटौ प्रत्ययौ भवतः । चिरं जीया- द्भवान् । चिरं जीवतु भवान् । आशिषीति किम् । चिरं जीवति देवदत्तः ॥ क्तिच्क्तौ च संज्ञायाम् ॥ १७४ ॥ आशिषीत्येव । आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः समु- दायेन चेत्संज्ञा गम्यते । तनुतात् तन्तिः । सनुतात् सातिः । भवतात् भूतिः । मनुतात् मन्तिः । क्तः खल्वपि । देवा एनं देयासुर्देवदत्तः । सामान्येन विहितः क्तः पुनरुच्यते क्तिचा बाधा मा भूदिति । चकारो विशेषणार्थः न क्तिचि दीर्घश्चेति ॥ माङि लुङ् ॥ १७५ ॥ माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति । सर्वलकाराणामपवादः । मा कार्षीत् । मा हार्षीत् । कथं मा भवतु तस्य पापं मा भविष्यतीति । असाधु- रेवायम् । के चिदाहुः । नहिवत्परो माशब्दो विद्यते तस्यायं प्रयोगः ॥