काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 239, कुल 828 में से
संदर्भ में पढ़ें२३२ ॥ काशिका ॥ ३ ॥ ४ ॥ स्मोत्तरे लङ् च ॥ १७६ ॥ स्मशब्दोत्तरे माह्युपपदे धातोर्लङ् प्रत्ययो भवति । चकारालुङ् च । मा स्म करोत् । मा स्म कार्षीत् । मा स्म हरत् । मा स्म हार्षीत् ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः ॥
॥ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ ❦ धातुसंबन्धे प्रत्ययाः ॥ १ ॥ धात्वर्थे धातुशब्दः । धात्वर्थानां संबन्धो धातुसंबन्धः । विशेषणवि- शेष्यभावः । तस्मिन्सति यथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति । अग्निष्टोमयाज्यस्य पुत्रो जनिता । कृतः कटः श्वो भविता । भावि कृत्यमा- सीत् । अग्निष्टोमयाजीति भूतकालः, जनितेति भविष्यत्कालः, तत्र भूत- कालो भविष्यत्कालेनाभिसंबध्यमानः साधुर्भवति । विशेषणं गुरुत्वाद्विशेष्य- कालमनुरुध्यते, तेन विपर्ययो न भवति । प्रत्ययाधिकारे पुनः प्रत्ययग्रहणमज्ञा- त्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंबन्धे सति कालभेदे साधवो यथा स्युरिति । गोमानासीत् । गोमान्भविता । गावो विद्यन्तेस्येति वर्तमा- नविहितो मतुबासीद् भवितेति संबन्धादतीते भविष्यति च साधुर्भवति ॥ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तद्ध्वमोः ॥ २ ॥ धातुसंबन्धइति वर्तते । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । प्रकृत्यर्थविशेषणं चैतत् । समभिहारविशिष्टक्रियावचनाद्धातोर्लोट् प्रत्ययो भवति, सर्वेषु कालेषु, सर्वलकाराणामपवादः । तस्य च लोटो हि स्व इत्ये- तावादेशौ भवतः, तद्धंभाविनस्तु वा भवतः । योगविभागोत्र कर्तव्यः । क्रियासमभिहारे लोट् भवति । ततो लोटो हिस्वौ । लोडित्येव । लोड्धर्मौ हिस्वौ भवत इत्यर्थः । तेनात्मनेपदपरस्मैपदत्वं भेदेनावतिष्ठते तिङ्त्वं च भवति । लुनीहिलुनीहीत्येवायं लुनाति । इमौ लुनीतः । इमे लुनन्ति । लुनी- हिलुनीहीत्येव त्वं लुनासि । युवां लुनीथः । यूयं लुनीथ । अथ वा लुनीतं लुनीतेत्येव यूयं लुनीथ । लुनीहिलुनीहीत्येवाहं लुनामि । आवां लुनीवः । वयं लुनीमः । भूते । लुनीहिलुनीहीत्येवायमलावीत् । अलाविष्टाम् । अलाविषुः । एवं मध्यमयोत्तमयोश्चोदाहार्यम् । भविष्यति । लुनीहिलुनीहीत्येवायं लविष्यति । लविष्यतः । लविष्यन्ति । एवं मध्यमयोत्तमयोश्चोदाहार्यम् । अधीष्वाधीष्वेत्येवा-