काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 240, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ४ ॥ २३३
यमधीते। इमावधीयाते। इमे ऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे। युवामधी- याथे। यूयमधीध्वे। अथ वा अधीध्वमधीध्वमित्येव यूयमधीध्वे। अधीष्वाधीष्वे- त्येवाहमधीये। आवामधीवहे। वयमधीमहे। एवं सर्वेष्वेव लकारेषूदाहार्यम् । क्रियासमभिहाराभिव्यक्तौ द्विवचनमयं लोडपेक्षते क्रियासमभिहारे द्वे भवत इति । यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वाद्वापेक्षते द्विवचनम् ॥ समुच्चये ऽन्यतरस्याम् ॥ ३ ॥ अनेकक्रियाध्याहारः समुच्चयः । समुच्चीयमानक्रियावचनाद्धातो रन्यत- रस्यां लोट् प्रत्ययो भवति । तस्य लोटो हिस्वावादेशौ भवतः । तद्धंभाविन- स्तु वा भवतः । भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवायमटति । इमावटतः। इमे ऽटन्ति। भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येव त्वम- टसि । युवामटथः । यूयमटथ । अथ वाभ्राष्ट्रमटत मठमटत खदूरमटत स्थाल्यपि- धानमटतेत्येव यूयमटथ। भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवाहम- टामि । आवामटावः । वयमटामः । अथ वा भ्राष्ट्रमटति मठमटति खदूरमटति स्थाल्यपिधानमटति इत्येवायमटति । इमावटतः । इमे ऽटन्ति । भ्राष्ट्रमटसि मठमटसि खदूरमटसि स्थाल्यपिधानमटसि इत्येव त्वमटसि । युवामटथः । यूयमटथ । भ्राष्ट्रमटामि मठमटामि खदूरमटामि स्थाल्यपिधानमटामीत्येवाहम- टामि । आवामटावः । वयमटामः । छन्दोधीष्व व्याकरणमधीष्व निरुक्तमधी- ष्वेत्येवायमधीते । इमावधीयाते । इमे ऽधीयते । छन्दोधीष्व व्याकरणमधीष्व निरुक्तमधीष्वेत्येव त्वमधीषे । युवामधीयाथे । यूयमधीध्वे । अथ वा छन्दो- धीध्वं व्याकरणमधीध्वं निरुक्तमधीध्वमित्येव यूयमधीध्वे। छन्दोधीष्व व्याक- रणमधीष्व निरुक्तमधीष्वेत्येवाहमधीये । आवामधीवहे । वयमधीमहे । अथ वा व्याकरणमधीते छन्दोधीते निरुक्तमधीते इत्येवायमधीते । इमावधीयाते । इमे ऽधीयते । छन्दोधीषे व्याकरणमधीषे निरुक्तमधीषे इत्येव त्वमधीषे । युवा- मधीयाथे । यूयमधीध्वे । छन्दोधीये व्याकरणमधीये निरुक्तमधीयइत्येवाहम- धीये । आवामधीवहे । वयमधीमहे ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४ ॥ पूर्वस्मिन् लोद्विधाने यथाविध्यनुप्रयोगो भवति । यस्माद्धातोर्लोद्विधि- स्तस्य एव धातुरनुप्रयोक्तव्यः । धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव । यथाविध्यर्थं तु वचनम् । तथा चैवोदाहृतम् । लुनीहिलुनीहीत्येवायं लुनातीति। छिनत्तीति नानुप्रयुज्यते । अधीष्वाधीष्वेत्येवायमधीते । पठतीति नानुप्रयुज्यते ॥ समुच्चये सामान्यवचनस्य ॥ ५ ॥ द्वितीये लोद्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः ।