काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 241, कुल 828 में से
संदर्भ में पढ़ें२३४ ॥ काशिका ॥ ३ ॥ ४ ॥ ओदनं भुङ्क्त्वा सक्तून्पिब धानाः खादेत्येवायमभ्यवहरति । सर्वविशेषानुप्रयोगनि- वृत्त्यर्थं वचनम् । लाघवं च लौकिके शब्दव्यवहारे नाद्रियते । आष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवायमटतीत्यत्रापि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव ॥ छन्दसि लुङ्लङ्लिटः ॥ ६ ॥ धातुसम्बन्धे इत्येव । छन्दसि विषये धातुसम्बन्धे सर्वेषु कालेषु लुङ्लङ्- लिटः प्रत्यया भवन्ति । अन्यतरस्यामिति वर्तते । तेनान्येपि लकारा यथायथं भवन्ति । लुङ् । शकलाङ्गुष्ठकोकरत् । अहं तेभ्योकरं नमः । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार । अद्य म्रियते ॥ लिङर्थे लेट् ॥ ७ ॥ छन्दस्यन्यतरस्यामिति वर्तते । लिङर्थे यत्र लिङ् विधीयते विध्यादिर्हेतु- हेतुमतोर्लिङित्येवमादिस्तत्र छन्दसि विषये ऽन्यतरस्यां लेट् प्रत्ययो भवति । जोषिषत् । तारिषत् । मन्दिषत् । नेता नेषत् । तत्त्विषत् । पताति दिद्युत् । उदधिं प्याषयाति ॥ उपसंवादाशङ्कयोश्च ॥ ८ ॥ उपसंवादः परिभाषणं, कर्मण्ये पणबन्धः । यदि मे भवानिदं कुर्याद् अहमपि भवतइदं दास्यामीति । कारकतः कार्यानुसरणं तर्के उत्प्रेक्षा आशङ्का । उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति । उप- संवादे । अहमेव पशूनामीशै । मय्येव वो यहायक्षान्तै इति । मद्देवत्या- न्येव वः पात्राण्युच्यन्तै। आशङ्कायां च। नेज्जिह्मयान्तो नरकं पताम। जिह्म- चरखेन नरकपात माशङ्कते । लिङर्थेणवायं नित्यार्थं तु वचनम् । पूर्वसूत्रे ऽन्य- तरस्यामिति वर्तते ॥ तुमर्थे सेसेनसेत्त्वसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्- शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ ९ ॥ छन्दसीत्येव । तुमुनो ऽर्थस्तुमर्थः । तत्र छन्दसि विषये धातोः सर्वा- दयः प्रत्यया भवन्ति । तुमर्थो भावः । कथं ज्ञायते । वचनसामर्थ्यात् । ताव- दयं कर्तुरपकृष्यते । न चान्यस्मिन्नर्थे तुमुन्नादिश्यते । अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति स्वार्थश्च धातूनां भाव एव । से । वक्षे रायः । सेन् । ता वामद्ये रथानाम् । असे । असेन् । ऋत्वे दत्ताय जीवसे । स्वरे विशेषः । क्से । क्सेन् । प्रेषे भगाय । श्रियसे । अध्यै । अध्यैन् । कर्मण्युपाचरध्यै । स्वरे विशेषः । क- ध्यै । इन्द्राग्नी आहुवध्यै । कध्यैन् । श्रियध्यै । शध्यै । शध्यैन् । पिबध्यै । ग्रह