भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 242, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 242

॥ काशिका ॥ ३ । ४ ॥ २३५ मादयध्यै । तवै । सोममिन्द्राय पातवै । तवेङ् । दशमे मासि सूतवे । तवेन् । स्वर्दृशेषु गन्तवे । कर्त्तवे । हर्तवे ॥ प्रयै रोहिष्यै अव्यथिष्यै ॥ १० ॥ तुमर्थे छन्दसीत्येव । प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये । प्रपूर्वस्य यातेः कैप्रत्ययः । प्रयै देवेभ्यः । प्रयातुम् । रुहेः इष्येप्रत्ययः । अपामोषधीनां रोहिष्यै । रोहणाय । व्यथेर्नञ्पूर्वस्य इष्येप्रत्ययः । अव्यथिष्यै । अव्यथनाय ॥ दृशे विख्ये च ॥ ११ ॥ तुमर्थे छन्दसीत्येव । दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते । दृशेः के प्रत्ययः । दृशे विश्वाय सूर्यम् । द्रष्टुम् । विख्ये त्वा हरामि । विख्यातुम् ॥ शकि णमुल्कमुलौ