भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 243, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 243

२३६ । ॥ काशिका ॥ ३ । ४ ॥ न्दसि विषये तुमर्थे तोसुन्प्रत्ययो भवति । आ संस्थातोर्वेत्रां सीदन्ति । आ समाप्तेः सीदन्तीत्यर्थः । इण् । पुरा सूर्यस्योदेतोराधेयः । कृञ् । पुरा वत्सा- नामपाकर्त्तोः । वदि । पुरा प्रवदितोरग्नौ प्रहोतव्यम् । चरि । पुरा प्रचरितो- राग्नीधे होतव्यम् । हु । आ होतोरप्रमत्तस्तिष्ठति । तमि । आ तमितोरा- सीत । जनि । आ विजनितोः संभवामेति ॥ सुपितृदोः कसुन् ॥ १७ ॥ भावलक्षणे छन्दसीति वर्तते । सुपितृदोर्द्धात्वोर्भावलक्षणेऽर्थे वर्तमान- योश्छन्दसि विषये तुमर्थे कसुन्प्रत्ययो भवति । पुरा क्रूरस्य विसृपो विरप् शिन् । पुरा जतृभ्य आतृदः ॥ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ १८ ॥ छन्दसि भावक्षणइति सर्वं निवृत्तम् । अलं खलु इत्येतयोः प्रतिषे- धवाचिनोरुपपदयोर्धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन । अलं कृत्वा । खलु कृत्वा । अलं बाले रुदित्वा । अलंखल्वोरिति किम् । मा कार्षीः । प्रतिषेधयोरिति किम् । अलंकारः । प्राचांग्रहणं विकल्पार्थम् । अलं रोदनेन । वासरूपविधिश्चेत्युक्तार्थम् ॥ उदीचां माङो व्यतीहारे ॥ १९ ॥ क्त्वा तु वर्तते । माङो धातोर्व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति । अपमित्य याचते । अपमित्य हरति । अपूर्वकाल- त्वादप्राप्तः क्त्वा विधीयते । उदीचांग्रहणात्तु यथाप्राप्तमपि भवति । याचित्वा ऽपमयते । हृत्वा ऽपमयते । मेहः कृतात्वस्यायं निर्देशः कृतो ज्ञापनार्थो नानुब- न्धकृतमनेजन्तत्वमिति, तेन दाधा घ्वदाविति दैपोऽपि प्रतिषेधो भवति ॥ परावरयोगे च ॥ २० ॥ परावराभ्यां योगः परावरयोगः । परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति । परेण तावत् । आप्राप्य नदीं पर्वतः स्थितः । परनदीयोगेन पर्वतो विशेष्यते । अपरयोगे । अतिक्रम्य तु पर्वतं नदी स्थिता । अवरपर्वतयोगेन नदी विशिष्यते ॥ समानकर्तृकयोः पूर्वकाले ॥ २१ ॥ समानः कर्त्ता ययोर्द्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद्धातोः क्त्वा प्रत्ययो भवति । शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् समानकर्त्तृकता । भुक्त्वा व्रजति । पीत्वाव्रजति । द्विवचनमतन्त्रम् । खात्वा पीत्वा भुक्त्वा दत्वा व्रजति । समानकर्त्तृकयोरिति किम् । भुक्तवति ब्राह्मणे गच्छति देव-