भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 244, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 244

॥ काशिका ॥ ३ ॥ ४ ॥ २३७ दत्तः। पूर्वकाले इति किम् । व्रजति च जल्पति च ॥ चास्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वात् ॥ * ॥ आभीक्ष्ण्ये णमुल् च ॥ २२ ॥ समानकर्तृकयोः पूर्वकालइत्येव । आभीक्ष्ण्यं पौनःपुन्यम् । प्रकृत्यर्थ- विशेषणं चैतत् । आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानाद्धातोर्णमुल प्रत्ययो भवति । चकारात् क्त्वा च । द्विवचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः न केवलौ । आभीक्ष्ण्ये द्वे भवत इत्युपसंख्यानाद् द्विवचनम् । भोजंभोजं व्रजति । भुक्त्वाभुक्त्वा व्रजति । पायंपायं व्रजति ॥ न यद्यनाकाङ्क्षे ॥ २३ ॥ यच्छब्दोपपदे धातोः क्त्वाणमुलौ प्रत्ययो न भवतो ऽनाकाङ्क्षे वाक्ये । यच्च ते पूर्वोत्तरे क्रिये स्तस्तच्चेद्वाक्यं न परं किं चिदाकाङ्क्षतरति । णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोपि प्रतिषिध्यते । यदयं भुङ्क्ते ततः पचति । यदयमधीते ततः शेते । अनाकाङ्क्षइति किम् । यदयं भुक्त्वा व्रजति अधीतएव ततः परम् ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ ॥ अप्राप्तविभाषेयम् । आभीक्ष्ण्यइति नानुवर्त्तते । अग्रे प्रथम पूर्व इत्ये- तेषूपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययौ विभाषा भवतः । अग्रे भोजं व्रजति । अग्रे भुक्त्वा व्रजति । प्रथमं भोजं व्रजति । प्रथमं भुक्त्वा व्रजति । पूर्वं भोजं व्रजति । पूर्वं भुक्त्वा व्रजति । विभाषाग्रहणमेताभ्यां मुक्ते लडादयोपि यथा स्युः । अग्रे भुङ्क्ते ततो व्रजति । ननु च वासरूप इति भविष्यति, क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्नास्तीत्येतदनेन ज्ञाप्यते। तेनाभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्मान्न क्रियते। उक्तं तत्रैवैकारस्य प्रयोजनम् अग्रेऽत्र यत्सुत्यविधानमुपपदं तत्समस्यते नान्यदिति ॥ कर्मण्याक्रोशे कृञः खमुञ् ॥ २५ ॥ कर्मण्यपपदे कृञो धातोः खमुञ् प्रत्ययो भवति आक्रोशे गम्यमाने । चोरंकारमाक्रोशति । चोरोऽसि दस्युरसि इत्याक्रोशति । चौरकरणमाक्रोशसंपा- दनार्थमेव न त्वसौ चोरः क्रियते ॥ स्वादुमि णमुल् ॥ २६ ॥ समानकर्तृकयोः पूर्वकाले कृञ इति चानुवर्त्तते । स्वादुमीत्यर्थग्रहणम् । स्वाद्वर्थेषूपपदेषु कृञो णमुल प्रत्ययो भवति । स्वांदुंकारं भुङ्क्ते । संपन्नंकारं भुङ्क्ते । लवणंकारम् । स्वादुमीति मकारान्तनिपातनमीकाराभावार्थे, स्वान्त- स्यापि मकारार्थे दीर्घाभावार्थे च । अस्वादीं स्वादीं कृत्वा भुङ्क्ते स्वादुंकारं