काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 245, कुल 828 में से
संदर्भ में पढ़ें२३८ ॥ काशिका ॥ ३ ॥ ४ ॥ भुङ्क्ते । आसरूपेण क्त्वापि भवति । स्वादुं कृत्वा भुङ्क्ते । तुमर्थाधिकाराच्च सर्वेष्वेते भावे प्रत्ययाः । यद्येवं स्वादुङ्कारं भुङ्क्ते देवदत्त इति णमुलः कर्तुर- नभिहितत्वात्कर्त्तरि कस्मात्तृतीया न भवति । भुजिप्रत्ययेनाभिहितः कर्त्ता । न चास्मिन्प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्यते । समानकर्त्तृत्वं हि विरुध्यते । प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत्प्रकाशते ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २७ ॥ कृञ इत्येव । अन्यथादिषूपपदेषु कृञो णमुल् प्रत्ययो भवति सिद्धाप्रयो- गश्चेत्करोतेर्भवति । कथं पुनरसौ सिद्धाप्रयोगः । निरर्थकत्वान्न प्रयोगमर्हतीति एवमेव प्रयुज्यते । अन्यथा भुङ्क्त इति यावानर्थस्तावनेवान्यथाकारं भुङ्क्त इति गम्यते । अन्यथाकारं भुङ्क्ते । एवंकारं भुङ्क्ते । कथंकारं भुङ्क्ते । इत्थंकारं भुङ्क्ते । सिद्धाप्रयोग इति किम् । अन्यथा कृत्वा शिरो भुङ्क्ते ॥ यथातथयोरसूयाप्रतिवचने ॥ २८ ॥ कृञः सिद्धाप्रयोग इति वर्त्तते । यथातथाशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने । * यद्यसूयन्पृच्छति प्रति- वक्ति तच्च प्रतिवचनं, यथाकारमहं भोक्ष्ये तथाकारमहं किं तवानेन । असूया- प्रतिवचनइति किम् । यथा कृत्वा ऽहं भोक्ष्ये तथा त्वं द्रक्ष्यसि । सिद्धाप्रयोग इत्येव । यथा कृत्वा ऽहं शिरो भोक्ष्ये किं तवानेन ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ कर्मण्युपपदे साकल्यविशिष्टे ऽर्थे दृशिविदोर्द्धात्वोर्णमुल् प्रत्ययो भवति । कन्यादर्श वरयति । यायाः कन्याः पश्यति तास्ता वरयतीत्यर्थः । ब्राह्मणवेदं भोजयति । यंयं ब्राह्मणं जानाति लभते विचारयति वा तान्स- र्व्वान् भोजयतीत्यर्थः । साकल्यइति किम् । ब्राह्मणं दृष्ट्वा भोजयति ॥ यावति विन्दजीवोः ॥ ३० ॥ यावच्छब्दउपपदे विन्दतेर्जीवतेश्च णमुल् प्रत्ययो भवति । यावद्वेदं भुङ्क्ते । यावल्लभते तावद्भुङ्क्तइत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीतइत्यर्थः ॥ चर्मोदरयोः पूरेः ॥ ३१ ॥ कर्मणीत्येव । चर्मोदरयोः कर्मणोरुपपदयोः पूरयतेर्णमुल् प्रत्ययो भवति । चर्मपूरं स्तुणाति । उदरपूरं भुङ्क्ते ॥ वर्षप्रमाणऊलोपश्चास्यान्यतरस्याम् ॥ ३२ ॥
- असूया ऽवमेति पुस्तकान्तरे ऽधिकम् ।