काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 246, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ४ ॥ २३८ कर्मणीत्येव । पूर्यतेर्द्धातोर्णमुल् प्रत्ययो भवति, ऊलोपश्चास्य पूर्यते- रन्यतरस्यां भवति समुदायेन चेद्वर्षस्य प्रमाणमियत्ता गम्यते । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । सातापूरं वृष्टो देवः । सीताप्रं वृष्टो देवः । अस्यग्रहणं किमर्थम् । उपपदस्य मा भूत् । मूषिकाबिलपूरं वृष्टो देवः । मूषिकाबिलप्रम् ॥ चेले क्नोपेः ॥ ३३ ॥ कर्मणि इत्येव । क्नूयी शब्दे उन्दने च । अस्मात्ण्यन्ताद्धातोश्चेलार्थेषु कर्मसु उपपदेषु णमुल् प्रत्ययो भवति वर्षप्रमाणे गम्यमाने । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपं, वसनक्नोपम् ॥ निर्मूलसमूयोः कषः ॥ ३४ ॥ कर्मणीत्येव । निर्मूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेर्द्धातोर्ण- मु