काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 247, कुल 828 में से
संदर्भ में पढ़ें२४० ॥ काशिका ॥ ३ ॥ ४ ॥ हस्ते वर्त्तिग्रहोः ॥ ३९ ॥ करणेत्येव । हस्तइत्यर्थग्रहणम् । वर्त्तिर्ण्यन्तः । हस्तवाचिनि करण- उपपदे वर्त्तयतेर्गृह्णातेश्च णमुल् प्रत्ययो भवति । हस्तेन वर्त्तयति । हस्तवर्त्तं वर्त्तयति । करवर्त्तम् । पाणिवर्त्तम् । ग्रहेः खल्वपि । हस्तेन गृह्णाति । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ स्वे पुषः ॥ ४० ॥ करणेत्येव । स्वइत्यर्थग्रहणम् । स्ववाचिनि करणे उपपदे पुषेर्द्धातोर्णमु- ल्प्रत्ययो भवति । आत्मीयज्ञातिधनवचनः स्वशब्दः । स्वपोषं पुष्णाति । आत्म- पोषम् । ज्ञातिपोषम् । पितृपोषम् । मातृपोषम् । धनपोषम् । रैपोषम् ॥ अधिकरणे बन्धः ॥ ४१ ॥ अधिकरणवाचिन्युपपदे बध्नातेर्द्धातोर्णमुल्प्रत्ययो भवति । चक्रबन्धं बध्ना- ति । कूटबन्धं बध्नाति । मुष्टिबन्धं बध्नाति । चोरकबन्धं बध्नाति । चोरके बध्नातीत्यर्थः ॥ संज्ञायाम् ॥ ४२ ॥ संज्ञायां विषये बध्नातेर्द्धातोर्णमुल्प्रत्ययो भवति । क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । मयूरिकाबन्धं बद्धः । अट्टालिकाबन्धं बद्धः । बन्धवि- शेषाणां नामधेयान्येतानि ॥ कर्त्त्रोर्जीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ जीवपुरुषयोः कर्तृवाचिनोरुपपदयोर्यथासंख्यं नशिवहोर्द्धात्वोर्णमुल् प्रत्य- यो भवति । जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषैः प्रेष्यो भूत्वा वहतीत्यर्थः । कर्त्तरीति किम् । जीवेन नष्टः । पुरुषेणोढः ॥ ऊर्द्ध्वे शुषिपूर्योः ॥ ४४ ॥ कर्तृग्रहणमनुवर्त्तते ऊर्द्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूर्योर्द्धात्वोर्णमुल् प्रत्य- यो भवति । ऊर्द्ध्वशोषं शुष्यति । ऊर्द्ध्वं शुष्यतीत्यर्थः । ऊर्द्ध्वपूरं पूर्यते । ऊर्द्ध्वं पूर्यतइत्यर्थः ॥ उपमाने कर्मणि च ॥ ४५ ॥ उपमीयते ऽनेनेत्युपमानम् । उपमाने कर्मण्युपपदे चकारात्कर्त्तरि धातो- र्णमुल् प्रत्ययो भवति । घृतनिधायं निहितः । घृतमिव निहित इत्यर्थः । सुव- र्णनिधायं निहितः । सुवर्णमिव निहितः । कर्तरि खल्वपि । वायसनाशं नष्टः । वायसवन्नष्टः । उष्ट्रकनाशम् । दन्तनाशम् ॥