भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 252, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 252

॥ काशिका ॥ ३ । ४ ॥ २४५ शकधृषज्ञाग्लाघटरभलभक्रमसहाहार्थास्त्य- र्थेषु तुमुन् ॥ ६५ ॥ शकादिषूपपदेष्वास्त्यर्थेषु वा धातुमात्रात्तुमुन् प्रत्ययो भवति । अक्रि- यार्थोपपदार्थोयमारम्भः । शक्नोति भोक्तुम् । धृष्णोति भोक्तुम् । जानाति भोक्तुम् । ग्लायति भोक्तुम् । घटते भोक्तुम् । आरभते भोक्तुम् । लभते भोक्तुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । आस्त्यर्थेषु खल्वपि । अस्ति भोक्तुम् । भवति भोक्तुम् । विद्यते भोक्तुम् ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥ ६६ ॥ पर्याप्तिरन्यूनता । पर्याप्तिवचनेष्वलमर्थेषूपपदेषु धातोस्तुमुन्प्रत्ययो भवति । पर्याप्तो भोक्तुम् । अलं भोक्तुम् । भोक्तुं पारयति । पर्याप्तिवचनेष्विति किम् । अलं कृत्वा । अलमर्थेष्विति किम् । पर्याप्तं भुङ्क्ते । पूर्वसूत्रे शक्ति- ग्रहणमनलमर्थम् । शक्यमेवं कर्तुमिति ॥ कर्त्तरि कृत् ॥ ६७ ॥ कृतसंज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति । कृदुत्पत्तिवाक्यानामयमर्थ- शेषः । तत्र येष्वर्थादेशो नास्ति तत्रेदमुपतिष्ठते । अर्थाकाङ्क्षित्वात् । न ख्युनादिवाक्येषु । साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात् । कारकः । कर्त्ता । नन्दनः । ग्राही । पचः ॥ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लांव्यापात्या वा ॥ ६८ ॥ भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । तयोरेव कृत्यक्तखलर्था इति भावकर्मणोः प्राप्तयोः कर्त्ता च वाच्यः पक्षे उच्यते । भवत्यसौ भव्यः । भव्य- मनेनेति वा । गेयो माणवकः साम्नां, गेयानि माणवकेन सामानीति वा । प्रवचनीयो गुरुः स्वाध्यायस्य । प्रवचनीयो गुरुणा स्वाध्याय इति वा । उप- स्थानीयो ऽन्तेवासी गुरोः । उपस्थानीयः शिष्येण वा गुरुः । जायते ऽसौ जन्यः । जन्यमनेनेति वा । आप्लवते ऽसावाप्लाव्यः । आप्लाव्यमनेनेति वा । आपातत्यसावापात्यः । आपात्यमनेनेति वा ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ६६ ॥ ल इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते । प्रथमाबहुवचनं चैतत् । लकाराः कर्मणि कारके भवन्ति । चकारात्कर्त्तरि च । अकर्मकेभ्यो धातुभ्यो भावे भवन्ति । पुनश्चकारात्कर्त्तरि च । गम्यते ग्रामो देवदत्तेन । गच्छति ग्रामं देवदत्तः । अकर्म- केभ्यः । आस्यते देवदत्तेन । आस्ते देवदत्तः । सकर्मकेभ्यो भावे न भवन्ति ॥