काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 251, कुल 828 में से
संदर्भ में पढ़ें२४४ ॥ काशिका ॥ ३ ॥ ४ ॥ तिर्यक्शब्दउपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतो ऽपवर्गे गम्यमाने । अपवर्गः समाप्तिः । तिर्यक्कृत्य गतः । तिर्यङ्कृत्वा गतः । तिर्यक्कारं गतः । समाप्य गत इत्यर्थः । अपवर्गे इति किम् । तिर्यक्कृत्वा काष्ठं गतः । तिर्यचीति शब्दानुकरणम् । न च प्रकृतिवदनुकरणेन भवितव्यम् । अनुक्रियमाणरूपवि- नाशप्रसङ्गात् । एतदोश, अदसोमादिति ॥ स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६१ ॥ तस्प्रत्ययो यतः स्वाङ्गात्तदेवमुच्यते । तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोते- र्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । यथासंख्यमत्र नेष्यते । अस्वारित- त्वात् । मुखतःकृत्य गतः । मुखतः कृत्वा गतः मुखतःकारं गतः । पृष्ठतःकृत्य गतः । पृष्ठतः कृत्वा गतः । पृष्ठतःकारं गतः । मुखतोभूय तिष्ठति । मुखतो भूत्वा तिष्ठति । मुखतोभावं तिष्ठति । पृष्ठतोभूय गतः । पृष्ठतो भूत्वा । पृष्ठतोभावम् । स्वाङ्गादिति किम् । सर्वतः कृत्वा गतः । तस्ग्रहणं किम् । मुखीकृत्य गतः । मुखी- भूय गतः । प्रत्ययग्रहणं किम् । मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः ॥ नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥ नार्थो धार्थश्च प्रत्ययो यस्मात्स एवमुच्यते । नाधार्थप्रत्यये शब्दे च्व्यर्थउपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । अनाना नाना कृत्वा गतः, नानाकृत्य गतः । नाना कृत्वा गतः । नानाकारं गतः । विनाकृत्य गतः । विना कृत्वा गतः । विनाकारं गतः । नानाभूय गतः । नाना भूत्वा गतः । नानाभावं गतः । विनाभूय गतः । विना भूत्वा गतः । विनाभावं गतः । द्विधा- कृत्य गतः । द्विधाकारं गतः । द्विधा कृत्वा गतः । द्विधाभूय गतः । द्विधा भूत्वा गतः । द्विधाभावं गतः । द्वैधंकृत्य गतः । द्वैधं कृत्वा गतः । द्वैधंकारं गतः । द्वैधंभूय गतः । द्वैधं भूत्वा गतः । द्वैधंभावं गतः । प्रत्ययग्रहणं किम् । हिरुक् कृत्वा । पृथक् कृत्वा । च्व्यर्थेति किम् । नाना कृत्वा काष्ठानि गतः । धार्थमर्थग्रहणं, न पुनरेक एव विनञ्भ्यां नानाञाविति ॥ तूष्णीमि भुवः ॥ ६३ ॥ तूष्णींशब्दउपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् । भूग्रहणं कृञो निवृत्त्यर्थम् ॥ अन्वच्यानुलोम्ये ॥ ६४ ॥ अन्वक्शब्दउपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः । आनुलो- म्यमनुलोमता, अनुकूलत्वं परचित्तानुविधानम् । अन्वग्भूयास्ते । अन्वग्भूत्वास्ते । अन्वग्भावमास्ते । आनुलोम्येति किम् । अन्वग्भूत्वा तिष्ठति ॥