काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 254, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 254
- इति दाशः । आगताय तस्मै दातुं गां घ्नन्तीति गोघ्नो ऽतिथिः । टगञ्र्निपा- त्येते । निपातनसामर्थ्यादेव गोघ्न ऋत्विगादिरुच्यते, न तु चण्डालादिः । आसत्यपि च गोहनने तस्य योग्यतया गोघ्न इत्यभिधीयते ॥ भीमादयो ऽपादाने ॥ ७४ ॥ भीमादयः शब्दा अपादाने निपात्यन्ते । उणादिप्रत्ययान्ता एते । श्याधूशूभ्यो मक् भियष्षुक्वेत्येवमादयः । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्ते निपातनमारभ्यते । भीमः । भीष्मः । भयानकः । वहः । वरुः । भूमिः । रजः । संस्कारः । संक्रन्दनः । प्रपतनः । समुद्रः । सुचः । सुक् । खलतिः ॥ ताभ्यामन्यत्रोणादयः ॥ ७५ ॥ उणादयः शब्दास्ताभ्यामपादानसंप्रदानाभ्यामन्यत्र कारके भवन्ति । कृत्त्वात् कर्त्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते । ताभ्यामिति संप्रदानार्थे प्रत्यव- मर्शः । अन्यथा अपादानमेव पर्युदस्येत, अनन्तरत्वात् । कृषितो ऽसौ कृषिः । तन्यतइति तन्तुः । वृत्तमिति वर्त्म । चरितं चर्म ॥ क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ७६ ॥ ध्रौव्यार्था अकर्मकाः प्रत्यवसानार्था अभ्यवहारार्था इति स्वनिकायप्र- सिद्धिः । ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः सो ऽधिकरणे भवति । चकाराद्यथाप्राप्तं च ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभा- वाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु । ध्रौव्यार्थेभ्यस्तावत् । आसितो देवदत्तः । आसितं तेन । इदमेषामासितम् । गत्यर्थेभ्यः । यातो देवदत्तो ग्रामम् । यातो देवदत्तेन ग्रामः । यातं देवदत्तेन । इदमेषां यातम् । प्रत्यवसानार्थेभ्यः । भुक्त ओदनो देवदत्तेन । भुक्त ओदनं देवदत्तः । देवदत्तेन भुक्तम् । इदमेषां भुक्तम् । कथं भुक्ता ब्राह्मणाः, पीता गाव इति । चकारो ऽन्वर्थीयः । भुक्तमेषामस्ति पीतमेषामस्तीति ॥ लस्य ॥ ७७ ॥ लस्येत्ययमधिकारः । अकार उच्चारणार्थः । लकारमात्रं स्थानित्वेना- धिक्रियते । यदिद ऊर्ध्वमनुक्रमिष्यामो लस्येत्येवं तद्वेदितव्यम् । किं चेदं लस्येति । दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च, तेषां विशेषकराननुबन्धानुत्सृज्य यत्सामान्यं तद्गृह्यते । षट्टित्, श्वत्वारो ङि- तः । अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते । लट् । लिट् । लुट् । लृट् । लोट् । लेट् । लङ् । लिङ् । लुङ् । लृङ् । इति । लकारमात्रस्य ग्रहणं कस्मान्न भव- ति लुनाति लूनात् इति । धात्वधिकारो ऽनुवर्तते । कर्त्रादयश्च विशेष्याः ।