काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 255, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 255
२४८ ॥ काशिका ॥ ३ ॥ ४ ॥ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझाथासायां- ध्वमिड्वहिमहिङ् ॥ ७८ ॥ लस्य तिवादय आदेशा भवन्ति । तिप्सिप्मिपां पकारः स्वरार्थः । इटष्टकार इटोदिति विशेषणार्थः । तिबादिभिरादेशैस्तुल्यत्वाच्च देशविध्यर्थः । महिङो ङकारस्तिङिति प्रत्याहारग्रहणार्थः । पचति । पचतः । पचन्ति । पचसि । पचथः । पचथ । पचामि । पचावः । पचामः । पचते । पचेते । पचन्ते । पचसे । पचेथे । पचध्वे । पचे । पचावहे । पचामहे । एवमन्येष्वपि लकारेषूदाहार्यम्॥ टित आत्मने पदानां टेरे ॥ ७९ ॥ टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति । तथा चैवोदाहृतम् । इह कस्मान्न भवति । पचमानो यजमानः । प्रकृतैस्तिबा-