भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 256, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 256

॥ काशिका ॥ ३ । ४ ॥ २४५ न च भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीषि । ब्रूथः । पञ्चानामिति किम् । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः । आदित इति किम् । परेषां मा भूत । ब्रुव इति पुनर्वचनं स्थान्यर्थे, परस्मैपदानामेव हि स्यात् ॥ लोटो लङ्वत् ॥ ८५ ॥ अतिदेशो ऽयम् । लोटो लङ्वत्कार्यं भवति । तामादयस्सलोपश्च । पचताम् । पचतम् । पचत । पचाव । पचाम । अडाटौ कस्मान्न भवतः, तथा भेर्जुसादेशो लङः शाकटायनस्यैवेति । वान्तु । यान्तु । विदो लटो वेत्यतो वाग्रहणमनुवर्तते । सा च व्यवस्थितविभाषा भविष्यति ॥ एरुः ॥ ८६ ॥ लोट इत्येव । लोटादेशानामिकारस्य उकारादेशो भवति । पचतु । पचन्तु ॥ हिन्योर्हस्वप्रतिषेधो वक्तव्यः ॥ * ॥ न वोच्चारणसामर्थ्यात् । अथ वा वेति वर्तते, सा च व्यवस्थितविभाषा ॥ सेर्ह्यपिच्च ॥ ८७ ॥ लोट इत्येव । लोटादेशस्य सेर्