भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 258, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 258

॥ काशिका ॥ ३ ॥ ४ ॥ २५१ इतश्च ॥ १०० ॥ ङित इत्येव । ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति । अपचत् । अपाक्षीत् । परस्मैपदेष्वित्येव । अपचावहि । अपचामहि ॥ तस्थस्थमिपां तान्तन्तामः ॥ १०१ ॥ ङित इत्येव । ङिल्लकारसंबन्धिनां चतुर्णां यथासंख्यं तामादय आदेशा भवन्ति । अपचताम् । अपचतम् । अपचत । अपचम् । अपाक्ताम् । अपाक्तम् । अपाक्त । अपाक्षम् ॥ लिङस्सीयुट् ॥ १०२ ॥ लिङादेशानां सीयुडागमो भवति । टकारो देशविध्यर्थः । उकार उच्चा- रणार्थः । पचेत । पचेयाताम् । पचेरन् । पचीष्ट । पचीयास्ताम् । पचीरन् ॥ यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ १०३ ॥ लिङ इत्येव । परस्मैपदविषयस्य लिङो यासुडागमो भवति, सीयुटो- पवादः, स चोदात्तो भवति, ङिच्च । आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां संभवाद्, नागमस्य । कुर्यात् । कुर्याताम् । कुर्युः । स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापकार्थं लकाराश्रयङित्त्वमादेशानां न भवतीति । अचिनवम् । अकरवम् ॥ किदाशिषि ॥ १०४ ॥ आशिषि यो लिङ् तस्य यासुडागमो भवति, स चोदात्तः, किद्भवति । प्रत्ययस्यैवेदं कित्त्वं नागमस्य प्रयोजनाभावात् । ङित्त्वे प्राप्ते कित्त्वं विधी- यते । गुणवृद्धिप्रतिषेधस्तुल्यः, संप्रसारणं जागर्तेर्गुणे च विशेषः । इष्यात् । इष्यास्ताम् । इष्यासुः । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । आशिषीति किम् । वद्यात् । जागृयात् ॥ झस्य रन् ॥ १०५ ॥ लिङ इत्येव । झस्य लिङादेशस्य रन्नित्ययमादेशो भवति । झोन्ताप- वादः । पचेरन् । यजेरन् । कृषीरन् ॥ इटो ऽत् ॥ १०६ ॥ लिङादेशस्य इटो ऽदित्ययमादेशो भवति । पचेय । यजेय । कृषीय । हृषीय । तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति न विभक्तौ तुस्मा इति । नेवाय- मादेशावयवस्तकारः, किं तर्हि मुखसुखार्थ उच्चार्यते । आगमस्येटो ग्रहणं न भवति, अर्थवद्ग्रहणे नानर्थकस्येति ॥