काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 259, कुल 828 में से
संदर्भ में पढ़ें२५२ ॥ काशिका ॥ ३ ॥ ४ ॥ सुट् तिथ्योः ॥ १०७ ॥ लिङ् इत्येव । लिङ्संबन्धिनोस्तकारथकारयोः सुडागमो भवति तकारथकारावागमिनौ । लिङ् तद्विशेषणम् । सीयुटस्तु लिङेवागमी । तेन भिन्नविषयत्वात्सुटा बाधनं न भवति । तकारे दूकार उच्चारणार्थः । कृषीष्ट कृषीयास्ताम् । कृषीरन् । कृषीष्ठाः । कृषीयास्थाम् ॥ झेर्जुस् ॥ १०८ ॥ लिङ् इत्येव । लिङादेशस्य झेर्जुस् आदेशो भवति । झोन्तापवादः । पचेयुः । यजेयुः ॥ सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ अलिङर्थ आरम्भः । सिचः परस्य चाभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य जुस् आदेशो भवति । अभ्यस्तविदिग्रहणमसिजर्थम् । ङित इति चानुवर्त्तते । सिच- स्तावत् । अकार्षुः । अहार्षुः । अभ्यस्तात् । अबिभयुः । अजिह्युः । अजा- गरुः । विदेः । अविदुः ॥ आतः ॥ ११० ॥ सिज्ग्रहणमनुवर्त्तते । सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति । कथमाभ्यामानन्तर्यं, सिज्लुकि कृते प्रत्ययलक्षणेन सिचोनन्तरः श्रुत्या चाका- रान्तादिति । अदुः । अधुः । अस्थुः । तकारो मुखसुखार्थः । पूर्वेणैव सिद्धे नियमार्थं वचनम् । आत एव सिज्लुगन्तान्नान्यस्मादिति । अभूवन् । प्रत्यय- लक्षणेन जुस्प्राप्तः प्रतिषिध्यते । तुल्यजातीयापेक्षत्वान्नियमस्य । श्रूयमाणे हि सिचि भवत्येव । अकार्षुः । अहार्षुः ॥ लङः शाकटायनस्यैव ॥ १११ ॥ आत इत्येव । आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति शाकटायनस्याचार्यस्य मतेन । अयुः । अवुः । अन्येषां मते । अयान् । ननु ङित इत्यनुवर्त्तते । अत्र लङेवाकारान्तादनन्तरो ङित्संभवति नान्यः, तत्किं लङ्ग्रहणेन । एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात् । लड्वद्भावेन यस्तस्य मा भूत् । लोटो लङ्वदिति । यान्तु । वान्तु । सिजभ्यस्तविदिभ्य- श्चेत्ययमपि झेर्जुस् लोटो न भवति । बिभ्यतु । जाग्रतु । विदन्तु । जुस्भा- वमात्रं हि मुख्येन लङा विशेष्यते । एवकार उत्तरार्थः ॥ द्विषश्च ॥ ११२ ॥ लङः शाकटायनस्यैवेत्येव । द्विषः परस्य लङादेशस्य झेर्जुसादेशो भवति शाकटायनस्याचार्यस्य मतेन । अद्विषुः अन्येषां मते । अद्विषन् ॥