भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 260, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 260

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण है:

॥ काशिका ॥ ३ ॥ ४ ॥ २५३ तिङ्शित्सार्वधातुकम् ॥ ११३ ॥ तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति । नयति । स्वपिति । रोदिति । पचमानः । यजमानः । सार्वधातुकप्रदेशाः सार्वधातुके यगित्ये- वमादयः ॥ आर्धधातुकं शेषः ॥ ११४ ॥ तिङः शितश्च वर्जयित्वा ऽन्यः प्रत्ययः शेषो धातुसंशब्देन विहित आर्धधातुकसंज्ञो भवति । लविता । लवितुम् । लवितव्यम् । धातोरित्येव । वृत्तत्वं वृत्तता ऽस्ति । लभ्याम् । लूभिः । जुगुप्सते ॥ लिट् च ॥ ११५ ॥ लिडादेशस्तिङार्धधातुकसंज्ञो भवति । सार्वधातुकसंज्ञाया अपवादः । पेचिव । शेकिव । जग्ले । मम्ले । ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति । [