भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 261, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 261

२५४ ॥ काशिका ॥ ४ ॥ १ ॥ ॥ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ ङ्याप्प्रातिपदिकात् ॥ १ ॥ अधिकारोऽयम् । यदिह ऊर्ध्वमनुक्रमिष्याम आपञ्चमाध्यायपरिसमाप्ते- ङ्याप्प्रातिपदिकादित्येवं तद्वेदितव्यम् । स्वादिषु कपपर्यन्तेषु प्रकृतिरधिक्रि- यते । ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङीति । टाब्डाप्चापामाबिति । प्राति- पदिकमुक्तमर्थवत्कृतत्तद्धितसमासाश्चेति । तेषांसमाहारनिर्देशो ङ्याप्प्रातिपदि- कादिति । यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यजलक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्त्तव्यम् । इतरथा हि समर्थविशेषणमेतत्स्यात् । अथ ङ्याब्ग्रहणं किं, न प्रातिपदिकग्रहणेन लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येव सिद्धम् । नैतदस्ति । स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं भवतीति । तथा च युवा खलतिपलितवलिनजरतीभिरिति ज्ञापकस्यास्ता- दृशमेव । किं च तदन्तात्तद्धितविधानार्थं ङ्याब्ग्रहणम् । कालितरा । हरि- णितरा । खट्वातरा । मालातरा । इति । विप्रतिषेधात्तद्धितबलीयस्त्वं स्यात् ॥ स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्- ङसोसाम्ङ्योस्सुप् ॥ २ ॥ ङ्याप्प्रातिपदिकादित्यधिकृतम् । ङ्याप्प्रातिपदिकात् स्वादद्यः प्रत्यया भवन्ति । उकारादयो ऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः । पकारः सुबिति प्रत्याहारार्थः । संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहितास्तेन सहास्यैकवाक्यता । ङ्यन्तात्तावत् । कुमारी । गौरी । शार्ङ्गरवी । ङीब्ङीष्- ङीनां क्रमेणोदाहरणम् । कुमारी । कुमार्यौ । कुमार्यः । कुमारीम् । कुमार्यौ । कुमारीः । कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमार्यै । कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमार्योः कुमा- रीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । एवं गौरी शार्ङ्गरवी चोदाहार्ये । आपः खल्वपि । खट्वा । बहुराजा । कारीषगन्ध्या । टाब्डाप्चापां क्रमेणोदा- हरणम् । खट्वा । खट्वे । खट्वाः । खट्वाम् । खट्वे । खट्वाः । खट्वया । खट्वा- भ्याम् । खट्वाभिः । खट्वायै । खट्वाभ्याम् । खट्वाभ्यः । खट्वायाः । खट्वाभ्याम् । खट्वाभ्यः । खट्वायाः । खट्वयोः । खट्वानाम् । खट्वायाम् । खट्वयोः । खट्वासु । एवं बहुराजाकारीषगन्ध्ये चोदाहार्ये । एवं प्रातिपदिकात् । दृषद् । दृषदौ । दृषदः । दृषदम् । दृषदौ । दृषदः । दृषदा । दृषद्भ्याम् । दृषद्भिः । दृषदे ।