काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 264, कुल 828 में से
संदर्भ में पढ़ेंकाशिका ॥ ४ ॥ १ ॥ २५७ मनः ॥ ११ ॥ मवन्तात्प्रातिपदिकात् ङीप् प्रत्ययो न भवति । ऋन्नेभ्यो ङाबिति ङीप् प्राप्तो मन इति सूत्रेण प्रतिषिध्यते । दामा । दामानौ । दामानः । पामा । पामानौ । पामानः । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयो- जयन्ति । सीमा । सीमानौ । सीमानः । अतिमहिमा । अतिमहिमानौ । अतिमहिमानः ॥ अनो बहुव्रीहेः ॥ १२ ॥ अनन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति । अनुपधालोपी बहुव्रीहिरिहोदाहरणम् । उपधालोपिनो हि विकल्पं वक्ष्यति । सुपर्वा । सुप- र्वाणौ । सुपर्वाणः । सुशर्मा । सुशर्माणौ । सुशर्माणः । बहुव्रीहेरिति किम् । अतिक्रान्ता राजान,मतिराजी ॥ डाबुभाभ्यामन्यतरस्याम् ॥ १३ ॥ डाप् प्रत्ययो भवति उभाभ्यां मवन्तात्प्रातिपदिकादनन्ताच्च बहुव्रीहेर- न्यतरस्याम् । पामा । पामे । पामाः । सीमा । सीमे । सीमाः । न च भवति । पामानः । सीमानः । बहुव्रीहेः । बहुराजा । बहुराजे । बहुराजाः । बहुतक्षा । बहुतक्षे । बहुतक्षाः । न च भवति । बहुराजानः । बहुतक्षाणः । अन्यतरस्यां- ग्रहणं किमर्थम् । बहुव्रीहौ वनो र चेत्यस्यापि विकल्पो यथा स्यात् । बहुधी- वा । बहुधीवरी । बहुपीवा । बहुपीवरी ॥ अनुपसर्जनात् ॥ १४ ॥ अधिकारोऽयम् । उत्तर सूत्रेषूपसर्जने प्रतिषेधं करोति । यदिम ऊर्ध्वम- नुक्रमिष्यामो ऽनुपसर्जनादित्येवं तद्वेदितव्यम् । वक्ष्यति । टिड्ढाणञिति ङीप् । कुरुचरी । मद्रचरी । अनुपसर्जनादिति किम् । बहुकुरुचरा बहुमद्रचरा मधुरा । जातेरिति ङीष् । कुक्कुटी । शुकरी । अनुपसर्जनादिति किम् । बहुकुक्कुटा बहुशू- करा मधुरा । कथं पुनरुपसर्जनेनाप्रत्ययप्रसङ्गः । तदन्तविधिना । ज्ञापितं चैत- दस्यत्र प्रकरणे तदन्तविधिरिति । तथा च प्रधानेन तदन्तविधिर्भवति । कुम्भकारी । नगरकारी । न चास्ति हन्तूहकं.तद्वितोयवस्ति ॥ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्- क्वरप्ख्युनाम् ॥ १५ ॥ अत इति सर्वत्रानुवर्त्तते । तत्सति संभवे विशेषणं भवति । टिदादि- भ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति । टापो ऽपवादः । टित्ताव- त् । कुरुचरी । मद्रचरी । इह कस्मान्न भवति । पचमाना । यजमाना । टानु- १७