काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 266, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ १ ॥ २५८ तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्य- ते । शाकल्यायनी । शाकल्यस्येमे छात्राः शाकलाः ॥ कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥ कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति । कुरुभ्योण्यौ ण्यते कृते ढक्च मण्डूकादित्यञ् च । यथाक्रमं टाब्ङीपोरपवादः । कौरव्या- यणी । माण्डूकायनी । कथं कौरवी सेना, तस्येदंविवक्षायामणि कृते भविष्य- ति ॥ कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम् ॥ * ॥ आसुरायणी । शेषिकेष्वर्थेषु इजश्चेत्याञि प्राप्ते ष्फप्रत्यय इष्यते ॥ आसुरीयः कल्पः ॥ वयसि प्रथमे ॥ २० ॥ कालकृतशरीरावस्था यौवनादिर्वयः । प्रथमे वयसि यत्प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति । कुमारी । किशोरी । बर्करी । प्रथ- मेति किम् । स्थविरा । वृद्धा । अत इत्येव । शिशुः ॥ वयस्यचरमइति वक्त- व्यम् ॥ * ॥ वधूटी । चिरखटी । द्वितीयवयोवचनावेतौ । प्राप्तयौवना स्त्यभि- धीयते । कथं कन्या, कन्यायाः कनीन चेति ज्ञापकात् । उत्तानशया लोहित- पादिकेति नैता वयःश्रुतयः ॥ द्विगोः ॥ २१ ॥ द्विगुसंज्ञकात्प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति । पञ्चपूली । दशपूली । कथं त्रिफला । अजादिषु दृश्यते ॥ अपरिमाणविस्ताचितकम्बलेभ्यो न तद्धितलुकि ॥ २२ ॥ पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते । अपरिमाणान्ताद् द्विगोर्बिस्ताचितक- म्बल्यान्ताच्च तद्धितलुकि सति ङीप् प्रत्ययो न भवति । बिस्तादीनां परिमा- णार्थे ग्रहणम् । सर्वतो मानं परिमाणम् । अपरिमाणान्तात्तावत् । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । दशाश्वा । तेन क्रीतम् । अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायामिति लुक् । कालः संख्या च न परिमाणम् । द्विवर्षा । त्रिवर्षा । द्वाभ्यां शताभ्यां क्रीता द्विशता । त्रिशता । बिस्तादिभ्यः । द्विबिसता । त्रिबिस्ता । द्व्याचिता । त्र्याचिता । द्विकम्बल्या । त्रिकम्बल्या । अपरिमाणेति किम् । द्व्याढकी । त्र्याढकी । तद्धि- तलुकीति किम् । समाहारे पञ्चाश्वी । दशाश्वी ॥ काण्डान्तात्क्षेत्रे ॥ २३ ॥ काण्डशब्दान्ताद् द्विगोस्तद्धितलुकि सतिचेत्रे वाच्ये ङीप् प्रत्ययो न भवति । द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः । प्रमाणे द्वयसजिति विहितस्य तद्धि- तस्य प्रमाणे लो द्विगोर्नित्यमिति लुकि कृते द्विकाण्डा क्षेत्रभक्तिः । त्रिकाण्डा