काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 267, कुल 828 में से
संदर्भ में पढ़ें२६० ॥ काशिका ॥ ४ ॥ १ ॥ क्षेत्रभक्तिः । काण्डशब्दस्यापरिमाणवाचित्वात्पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे निय- मार्थं वचनम् । इह मा भूत् । द्विकाण्डी रज्जुस्त्रिकाण्डी रज्जुरिति । प्रमाण- विशेषः काण्डम् ॥ पुरुषात्प्रमाणे ऽन्यतरस्याम् ॥ २४ ॥ द्विगोस्तद्धितलुकीत्येव । प्रमाणे यः पुरुषशब्दस्तदन्ताद् द्विगोस्तद्धित- लुकि सति अन्यतरस्यां न ङीप् प्रत्ययो भवति । द्वौ पुरुषौ प्रमाणमस्याः परि- खायाः द्विपुरुषा, द्विपुरुषी । त्रिपुरुषा, त्रिपुरुषी । अपरिमाणान्तत्वादित्ये प्रति- षेधे प्राप्ते विकल्पार्थं वचनम् । प्रमाणादिति किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । त्रिपुरुषा । तद्धितलुकीत्येव । समाहारे द्विपुरुषी, त्रिपुरुषी ॥ बहुव्रीहेरूधसो ङीष् ॥ २५ ॥ ऊधश्शब्दान्ताद्बहुव्रीहेः । स्त्रियां ङीष् प्रत्ययो भवति । ऊधसोऽनङ्ङिति समासान्ते कृते अनो बहुव्रीहेरिति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते । घटो- ध्री । कुण्डोध्री । बहुव्रीहेरिति किम् । प्राप्ता ऊधः, प्राप्तोधाः । अन उपधा- लोपिन इत्यस्यापि ङीपोयममुत्तरत्रानुवृत्तेर्बाधक इष्यते । समासान्तश्च स्त्रिया- मेव, इह न भवति महोधाः पर्जन्य इति ॥ संख्याव्ययादेर्डीप् ॥ २६ ॥ पूर्वेण ङीषि प्राप्ते ङीब्बिधीयते । संख्यादेरव्ययादेश्च बहुव्रीहेरूधः- शब्दान्ताद् ङीप् प्रत्ययो भवति । संख्यादेस्तावत् । द्व्यूध्री । त्र्यूध्री । अव्ययादेः । अत्यूध्री । निरूध्री । आदिग्रहणं किम् । द्विविधोध्री त्रिविधोध्रीत्यात्रापि यथा स्यात् ॥ दामहायनान्ताच ॥ २७ ॥ ऊधस इति निवृत्तम् । संख्याग्रहणमनुवर्तते नाव्ययग्रहणम् । संख्यादे- र्बहुव्रीहेर्दामशब्दान्ताद्धायनशब्दान्ताच्च स्त्रियां ङीप् प्रत्ययो भवति । दामा- न्तात् डाप्प्रतिषेधविकल्पेषु प्राप्तेषु नित्यमर्थं वचनम् । द्विदाम्नी । त्रिदाम्नी । हायनान्तादापि प्राप्ते, द्विहायनी । त्रिहायणी । चतुर्हायणी ॥ हायनो वयसि स्मृतः ॥ * ॥ तेनेह न भवति, द्विहायना शाला । त्रिहायना । चतुर्हायना ॥ णत्वमपि त्रिचतुर्भ्यां हायनस्येति वयस्येव स्मर्यते ॥ अन उपधालोपिनो ऽन्यतरस्याम् ॥ २८ ॥ बहुव्रीहेरित्येव । अन्नन्तो यो बहुव्रीहिरुपधालोपी त