काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 273, कुल 828 में से
संदर्भ में पढ़ें२६६ ॥ काशिका ॥ ४ । १ ॥ गमः । येषामत्र पुंयोगएवेष्यते तेषामानुगागममात्रं विधीयते । प्रत्ययस्तु पूर्वे- णैव सिद्धः । अन्येषां तूभयं विधीयते । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी ॥ हिमारण्ययोर्महत्त्वे ॥ * ॥ महद्धिमं हिमानी । महदरण्यमरणयानी ॥ यवाद्दोषे ॥ * ॥ दुष्टो यवो यवानी ॥ यवनाल्लिप्याम् ॥ * ॥ यवनानी लिपिः ॥ * ॥ उपाध्यायामातुलाभ्यां वा ॥ * ॥ उपाध्यायी । उपाध्या- यानी । मातुली । मातुलानी ॥ आचार्यादणत्वं च ॥ * ॥ आचार्यानी । आचार्या ॥ आर्यक्षत्रियाभ्यां वा ॥ * ॥ आर्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । विना पुंयोगेन स्वार्थेवायं विधिः । पुंयोगे तु ङीषैव भवितव्यम् । आर्यी । क्षत्रियी ॥ मुद्गलाच्छन्दसि लिच्च ॥ * ॥ रथीरभून्मुद्गलानी गविष्टौ ॥ क्रीतात्करणपूर्वात् ॥ ५० ॥ करणं पूर्वमस्मिन्निति करणपूर्वं प्रातिपदिकम् । क्रीतशब्दान्तात्प्राति- पदिकात्करणपूर्वात्स्त्रियां ङीष् प्रत्ययो भवति । वस्त्रेण क्रीता सा वस्त्रक्रीती । वसनक्रीती । करणपूर्वादिति किम् । सुक्रीता । दुष्क्रीता । इह कस्मान्न भवति सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी । इति । ङीबन्तेन समासः । अत इति चानुवर्तते । गति कारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरिति । बहुलं तदुच्यते, कर्तृकरणे कृता बहुलमिति ॥ क्तादल्पाख्यायाम् ॥ ५१ ॥ करणपूर्वादित्येव । करणपूर्वात्प्रातिपदिकात् क्तान्तादल्पाख्यायां प्रत्ययो भवति । अल्पाख्यायामिति समुदायापाधिः । अभ्रविलिप्ती गौः । सूपवि- लिप्ती पात्री । अल्पसूपेत्यर्थः । अल्पाख्यायामिति किम् । चन्दनानुलिप्ता ब्राह्मणी बहुव्रीहेश्चान्तोदात्तात् ॥ ५२ ॥ क्तादित्येव । बहुव्रीहिर्योऽन्तोदात्तस्तस्मात्स्त्रियां ङीष् प्रत्ययो भवति स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम् । अस्वाङ्गपूर्वपदाद्विकल्पं वक्ष्यति । उरु- भिन्ना । ऊरुभिन्नी । गलकृत्ती । केशलूनी । बहुव्रीहेरिति किम् । पा- तिता ॥ अन्तोदात्तज्जातप्रतिषेधः ॥ * ॥ दन्तजाता । स्तनजाता ॥ पाणिगृही- त्यादीनामर्थविशेषे ॥ * ॥ पाणिगृहीती भार्या । यस्यास्तु कथं चित्पाणिर्गृहीतः पाणिगृहीता सा भवति ॥ नबहुनञ् सुकालसुखादिपूर्वादिति वक्तव्यम् ॥ * ॥ बहुकृता । नञ् । अकृता । सु । सुकृता । काल । मासजाता । संवत्सरजाता । सुखादिः । सुखजाता । दुःखजाता । जातिकालसुखादिभ्योनाच्छादनादित्येव- मादिना बहुव्रीहेरन्तोदात्तत्वम् ॥