भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 29, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 29

२२ ॥ काशिका ॥ १ ॥ १ ॥ अलोऽन्त्यात्पूर्व उपधा ॥ ६५ ॥ धात्वादौ वर्णसमुदाये ऽन्त्यादलः पूर्वो यो वर्णः सोऽलेवोपधासंज्ञो भवति । पच् । पठ् । अकारः । भिद् । छिद् । इकारः । बुध् । युध् । उकारः । वृत् । वृध् । ऋकारः । अल् इति किम् । शिष्टः । शिष्टवान् । समुदायात्पू- र्वस्य मा भूत् । उपधाप्रदेशाः । अत उपधाया इत्येवमादयः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ ६६ ॥ तस्मिन्निति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति नोत्तरस्य । इको यणचि । दध्युदकम् । मध्विदम् । पचत्योदनम् । निर्दिष्टग्रहणमानन्तर्यार्थम् । अग्निचिदत्रेति व्यवहितस्य मा भूत् ॥ तस्मादित्युत्तरस्य ॥ ६७ ॥ निर्दिष्टग्रहणमनुवर्त्तते । तस्मादिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति न पूर्वस्य । तिङ्ङतिङः । ओदनं पचति । इह न भवति । पचत्योदन- मिति ॥ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ ६८ ॥ शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति न बाह्यो ऽर्थः, शब्दसंज्ञां वर्जयित्वा । शब्देनार्थावगतेरर्थे कार्यस्यासंभवात्तद्वाचिनां शब्दानां संप्रत्ययो मा भूदिति सूत्रमिदमारभ्यते । अग्नेर्ढक् । आग्नेयमष्टाकपालं निर्वपेत् । अग्निशब्दो ऽग्निशब्दस्यैव ग्राहको भवति न ज्वलनः पावको धूमकेतुरिति नातः प्रत्ययो भवति । उदश्वितो ऽन्यतरस्याम् । औदश्वित्कम् । औदश्वि- तम् । तक्रमरिष्टं कालशेयं दण्डाहतं मथितमिति नातः प्रत्ययो भवति । अश- ब्दसंज्ञेति किम् । दाधा घ्वदाप् । तरप्तमपौ घः । घुग्रहणेषु घग्रहणेषु च संज्ञिनां ग्रहणं न संज्ञायाः ॥ सित्तद्विशेषाणां वृक्षार्थम् ॥ * ॥ सिन्निर्देशः कर्तव्यः । ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवतीति । किं प्रयोजनम् । वृक्षार्थम् । विभाषा वृक्षमृगतृणेति । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । पित्पर्यायवचनस्य च स्वाद्यर्थम् ॥ * ॥ पिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्यायवचनस्य ग्रहणं भव- ति, चकारात् स्वस्य रूपस्य तद्विशेषाणां चेति । किं प्रयोजनम् । स्वाद्यर्थम् । स्वे पुषः । स्वपोषं पुष्टः । रैपोषम् । धनपोषम् । अश्वपोषम् । गोपोषम् । जित् पर्यायवचनस्यैव राजार्थम् ॥ * ॥ जिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्याय- वचनस्यैव ग्रहणं भवतीति, न स्वरूपस्य नापि तद्विशेषाणाम् । किं प्रयोजनम् । राजार्थम् । सभा राजामनुष्यपूर्वा । इनसभम् । ईश्वरसभम् । तस्यैव न भवति राजसभा । तद्विशेषाणां च न भवति । पुष्यमित्रसभा । चन्द्रगुप्तसभा । झित्-

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 29, कुल 828 में से · BharatKosha