भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 291, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 291

२८६ ॥ काशिका ॥ ४ । १ ॥ राजन्श्वशुरशब्दाभ्यामपत्ये यत्प्रत्ययो भवति । यथाक्रममञोणोरप- वादः । राजन्यः । श्वशुर्यः ॥ राज्ञो ऽपत्ये जातिग्रहणम् ॥ * ॥ राजन्यो- भवति, क्षत्रियश्चेत । राज्ञोन्यः ॥ क्षत्राद्धः ॥ १३८ ॥ क्षत्रशब्दादपत्ये घः प्रत्ययो भवति । क्षत्रियः । अयमपि जातिशब्द एव । क्षात्रिरन्यः ॥ कुलात्खः ॥ १३९ ॥ उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते । कुलशब्दान्तात्प्रातिपदि- कात्केवलाच्चापत्ये खः प्रत्ययो भवति । आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः ॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥ १४० ॥ कुलादित्येव । अविद्यमानं पूर्वपदं यस्य तदपूर्वपदं, समाससंबन्धिनः पूर्वपदस्याभावेन कुलशब्दो विशेष्यते । अपूर्वपदात्कुलशब्दादन्यतरस्यां यत् ढक्ञ् इत्येतौ प्रत्ययौ भवतः । ताभ्यां मुक्ते खोपि भवति । कुल्यः । कौले- यकः । कुलीनः । पदग्रहणं किम् । बहुच्पूर्वादपि यथा स्यात् । बहुकुल्यः । बहुकुलेयकः । बहुकुलीनः ॥ महाकुलादञ्खञौ ॥ १४१ ॥ अन्यतरस्यामित्यनुवर्त्तते । पक्षे खः* । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ दुष्कुलाड्ढक् ॥ १४२ ॥ दुष्कुलशब्दादपत्ये ढक् प्रत्ययो भवति । अन्यतरस्यामित्यनुवृत्तेः खश्च । दौष्कुलेयः । दुष्कुलीनः ॥ स्वसुश्छः ॥ १४३ ॥ स्वसृशब्दादपत्ये छः प्रत्ययो भवति । अणोपवादः । स्वसुरपत्यं, स्वस्रीयः ॥ भ्रातुर्व्यच्च ॥ १४४ ॥ भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति । चकाराच्छश्च । अणोपवादः । भ्रातृव्यः । भ्रात्रीयः । तकारः स्वरार्थः ॥ व्यन्सपन्ने ॥ १४५ ॥ सपत्नशब्दः शत्रुपर्यायः शब्दान्तरमव्युत्पन्नमेव । सपत्नीशब्दादपरे ऽका- रमिवार्थे निपातयन्ति । सपत्नीव सपत्नः । भ्रातृशब्दाद् व्यन्प्रत्ययो भवति

  • महाकुलशब्दादञ्खञौ प्रत्ययौ भवतः । अन्यतरस्यांग्रहणानुवृत्तेः खश्चेति पा० २ ।