भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 292, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 292

॥ काशिका ॥ ४ । १ ॥ २८७ समुदायेन चेदमित्रः सपत्न उच्यते । अपत्यार्थोऽत्र नास्त्येव । पाप्मना भ्रातृ- व्येण । भ्रातृव्यः कण्टकः ॥ रेवत्यादिभ्यष्ठक् ॥ १४६ ॥ रेवतीत्येवमादिभ्यो ऽपत्ये ठक् प्रत्ययो भवति । यथायोगं ढगादीना- मपवादः । रैवतिकः । आश्वपालिकः । रेवती । अश्वपाली । मणिपाली । द्वारपाली । वृकवञ्चिन् । वृकग्राह । कर्णग्राह । दण्डग्राह । कुक्कुटाक्ष * ॥ गोत्रस्त्रियाः कुत्सने षा च ॥ १४७ ॥ अपत्यं पौत्रप्रभृति गोत्रं गृह्यते । गोत्रं या स्त्री तदभिधायिनः शब्दा- दपत्ये षाः प्रत्ययो भवति चकाराट्ठक्च, कुत्सने गम्यमाने । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा । गार्ग्या अपत्यं, गार्ग्यो जाल्मः । गार्गिकः । ग्लौचुकायन्या अपत्यं, ग्लौचुकायनः । ग्लौचुकायनिकः । गोत्राद्यूनीति यूनि प्रत्ययो भवति । गोत्रमिति किम् । कारिकेयो जाल्मः । स्त्रिया इति किम् । औपगविर्जाल्मः । कुत्सनइति किम् । गार्गेयो माणवकः ॥ वृद्धाट्त्सौवीरेषु बहुलम् ॥ १४८ ॥ कुत्सनइत्येव । सौवीरेष्विति प्रकृतिविशेषणम् । वृद्धात्सौवीरगोत्राद- पत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने । भागवित्तेर्भागवित्तिकः । तार्णबिन्दवस्य तार्णबिन्दविकः । पक्षे यथाप्राप्तं फक् । भागवित्तायनः । पक्षे तार्णबिन्दविः । अकशापः शुभादिः । आकशापेयः । तस्यापत्यमाकशा- पेयिकः । पक्षे आकशापेयिः । भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः । तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलन्ततः ॥ बहुलग्रहणं स्त्रीनिवृत्त्यर्थम् । सौवीरेष्विति किम् । औपगविर्जाल्मः । कुत्सनइत्येव । भागवित्तायनो माणवकः । बहुलग्रहणमुगादिवैचित्र्यार्थम् । गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सनएव । अन्यः सौवीर- गोत्रएव । मध्यमौ द्वयोरपि । तदेतद्बहुलग्रहणाल्लभ्यते ॥ फेञ्छ च ॥ १४९ ॥ कुत्सनइत्येव, सौवीरेष्विति च । फेरिति फिञो ग्रहणं न फिनः, वृद्धा- धिकारात् । फिञन्तात्प्रातिपदिकात्सौवीरगोत्रादपत्ये छः प्रत्ययो भवति चका- राट्ठक् कुत्सने गम्यमाने । यमुन्दस्यापत्यं, तिकादिभ्यः फिञ्, तस्यापत्यं, यामु- * वृकबन्धु । चामरग्राह । ककुदाक्ष । एते शब्दाः पुस्तकान्तरे ऽधिकाः ।