काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 297, कुल 828 में से
संदर्भ में पढ़ें२८२ ॥ काशिका ॥ ४ । १ ॥ दाक्षायणः । दाक्षिर्वा । स्थविरेति किम् । स्थानवयोन्यूने गार्ग्य एव भवति । जीवतीति किम् । मृते मृते वा गार्ग्य एव भवति ॥ वृद्धस्य च पूजायाम् ॥ १६६ ॥ अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद्गोत्रं वृद्धमित्युच्यते । वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम् । संज्ञासामर्थ्याद्गोत्रं युव- प्रत्ययेन पुनरुच्यते । वृद्धस्येति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिरिति । तत्र भवान् गार्ग्यायणः । गार्ग्यो वा । तत्र भवान् वात्स्यायनः । वात्स्यो वा । तत्र भवान् दाक्षायणः । दाक्षिर्वा । पूजायामिति किम् । गार्ग्यः । वात्स्यः ॥ यूनश्च कुत्सायाम् ॥ १६७ ॥ कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति । निवृत्तिप्रधाने विकल्पो, युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति, प्रतिपत्ताभावात् । गार्ग्यौ जाल्मः । गार्ग्यायणो वा । वात्स्यो जाल्मः । वात्स्यायनो वा । दाक्षि- र्जाल्मः । दाक्षायणो वा । कुत्सायामिति किम् । गार्ग्यायणः ॥ जनपदशब्दात्क्षत्रियादञ् ॥ १६८ ॥ जनपदशब्दो यः क्षत्रियवाची तस्मादपत्ये ऽञ् प्रत्ययो भवति । पाञ्चालः । ऐक्ष्वाकः । वैदेहः । जनपदशब्दादिति किम् । द्रुह्योरपत्यं, द्रौह्यवः । पौरवः । क्षत्रियादिति किम् । ब्राह्मणस्य पञ्चालस्यापत्यं, पाञ्चालिः । वैदेहिः ॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत् ॥ * ॥ पञ्चालानां राजा पाञ्चालः । वैदेहः । मागधः । ॠद्वृद्धात्पेति प्राप्तस्य वुञोऽपवादः ॥ साल्वेयगान्धारिभ्यां च ॥ १६९ ॥ साल्वेयगान्धारिशब्दाभ्यामपत्ये ऽञ् प्रत्ययो भवति । जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्यामपवादे वृद्धादिति ञ्यङि प्राप्ते पुनरञ्विधीयते । साल्वेयः । गान्धारः । तस्य राजनीत्येव । साल्वेयो राजा । गान्धारो राजा ॥ द्व्यञ्मगधकलिङ्गसूरमसादण् ॥ १७० ॥ जनपदशब्दात्क्षत्रियाभिधायिनो द्व्यचो मगध कलिङ्ग सूरमस इत्येते- भ्यश्चापत्ये ऽण् प्रत्ययो भवति । अञोऽपवादः । आङ्गः । वाङ्गः । सौरमसः । पौण्ड्रः । मागधः । कालिङ्गः । सौह्मः । तस्य राजनीत्येव । आङ्गो राजा । वाङ्गो राजा ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ १७१ ॥ जनपदशब्दात्क्षत्रियादित्येव । वृद्धाच्च प्रातिपदिकादिकारान्ताच्च को- सलाजादशब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति । अञोऽपवादः । वृद्धात्तावत् । आम्बष्ठ्यः । सौवीर्य्यः । इकारान्तात् । आवन्त्यः । कौन्त्यः । कोसलाजादयो-