काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 296, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । १ ॥ २८१ नास्त्येव । तथा च मानुषा इति बहुषु न लुग्भवति । अपत्यविवक्षायां त्वत्रैव भवितव्यम् । मानवी प्रजा । अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२ ॥ पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति । संबन्धिवचनत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः । अपत्यमिति व्यपदेशार्थं संज्ञिनः पौत्रप्रभृतेः । पौत्रप्रभृतीति किम् । आनन्तरस्य मा भूत् । कौञ्जः । गार्गः । गोत्रप्रदेशा एको गोत्रइत्येवमादयः ॥ जीवति तु वंश्ये युवा ॥ १६३ ॥ अभिजनप्रबन्धो वंशः । तत्र भवो वंश्यः पित्रादि,तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति । पौत्रप्रभृतीति च न सामानाधिकरण्येना- पत्यं विशेषयति, किं तर्हि षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति । तेन चतुर्थादारभ्य युवसंज्ञा विधीयते । गार्ग्यायणः । वात्स्यायनः । तुशब्दोवधा- रणार्थो युवैव न गोत्रमिति ॥ भ्रातरि च ज्यायसि ॥ १६४ ॥ भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृते- रपत्यम् । गार्ग्यस्य द्वौ पुत्रौ तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति । अवंश्यार्थोयमारम्भः । पूर्वजाः पित्रादयो वंश्या इत्युच्यन्ते । भ्राता तु न वंश्यः। अकारणत्वात् । गार्ग्ये जीवति गार्ग्या- यणोस्य कनीयान्भ्राता । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः ॥ वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ १६५ ॥ सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । येषाम् उभयत्र दशाहानि कुलस्यान्नं न भुज्यते * । इत्येवमादिकायां क्रियायामनधिकारः । भ्रातुरन्यस्मिन्सपिण्डे स्थविर तरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति । प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणमिदं तु संज्ञिनः । तरब्निर्देश उभयोत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात् । पितृव्ये पितामहे भ्रातरि वयसाधिके जीवति । गर्गस्यापत्यं गार्ग्यायणः । गार्ग्यो वा । वात्स्यायन । वात्स्यो वा ।
- दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते इति पद्यार्द्धमधिकं कुत्र चित् ।