काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 300, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । २ ॥ २८५ लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । अणोपवादः । लाक्षया रक्तं वस्त्रं, लाक्षिकम् । रोचनिकम् । शाक- लिकम् । कार्द्दमिकम् ॥ शकलकर्द्दमाभ्यामणपीष्यते ॥ शाकलम् । कार्द्दमम् ॥ नील्या अन् वक्तव्यः ॥ * ॥ नील्या रक्तं नीलं वस्त्रम् ॥ पीतात् कन् वक्त- व्यः ॥ * ॥ पीतेन रक्तं पीतकम् ॥ हरिद्रामहारजनाभ्यामञ्वक्तव्यः ॥ * ॥ हारिद्रम् । माहारजनम् ॥ नक्षत्रेण युक्तः कालः ॥ ३ ॥ तृतीया समर्थविभक्तिरनुवर्त्तते । तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवा- चिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः, कालश्चेत्स भवति । कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते । पुष्यादि- समीपस्थे चन्द्रमसि वर्त्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति । पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौष- महः । माघी रात्रिः । माघमहः । नक्षत्रेणेति किम् । चन्द्रमसा युक्ता रात्रिः । काल इति किम् । पुष्येण युक्तश्चन्द्रमाः ॥ लुबविशेषे ॥ ४ ॥ पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते । यावान् कालो नक्षत्रेण युज्यते ऽहोरात्र- स्तस्याविशेषे लुब् भवति । अद्य पुष्यः । अद्य कृतिकाः । अविशेषइति किम् । पौषी रात्रिः । पौषमहः ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५ ॥ अविशेषे लुब्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवणशब्दादश्वत्थ- शब्दाच्चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये । श्रवणा रात्रिः । अश्वत्थो मुहूर्त्तः । लुपि युक्तवद्भावः कस्मान्न भवति । निपातनाद् विभाषा फाल्गुनीश्रवणाकार्त्तिकीति । संज्ञायामिति किम् । श्रावणी आश्वत्थी रात्रिः ॥ द्वन्द्वाच्छः ॥ ६ ॥ नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे । अद्य राधानुराधी- यम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद् बाधते ॥ दृष्टं साम ॥ ७ ॥ तेनेति तृतीयासमर्थाद् दृष्टं सामित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । यद् दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्टं, क्रौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ॥