काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 299, कुल 828 में से
संदर्भ में पढ़ें२९४ ॥ काशिका ॥ ४ ॥ २ ॥ अतश्च ॥ १७७ ॥ स्त्रियामित्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भ- वति । तकारो विस्पष्टार्थः । शूरसेनी । मद्री । दरत् । अवन्त्यादिभ्यो लुग्व- चनात् तदन्तविधिरत्र नास्ति तेनेह न भवति । आम्बष्ठ्या । सौवीर्या ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥ प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग्न भवति । अतश्चे- त्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाञ्चाली । वैदेही । आङ्गी । वाङ्गी । मागधी । भर्गादिभ्यः । भार्गी । कारुषी । कैकेयी । यौधेयादिभ्यः । यौधेयी । शौभ्रेयी । शौक्रेयी । कस्य पुनरकारस्य प्रत्ययस्य यौधे- यादिभ्यो लुक् प्राप्तः प्रतिषिध्यते । पाञ्चमिकस्याञः पर्श्वादिद्यौधेयादिभ्याम- णञावित्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति । एतदेव विज्ञापयति पाञ्चमिकस्यापि तद्राजस्यातश्चेत्यनेन लुग्भवतीति । किमेतस्य ज्ञा- पनेन प्रयोजनं पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति । पर्शूः । रक्षाः । आसुरी । तथा चोक्तं "यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति" । भर्ग । करुष । केकय । कश्मीर । साल्व । सुस्याल । उरश * । कौरव्य । भर्गादिः । यौधेय । शौभ्रेय । शौक्रेय । यावाणेय । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । यौधेयादिः ॥ ॥ इति काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥ ॥ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ तेन रक्तं रागात् ॥ १ ॥ शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यते ऽनेनेति रागः । तेनेति तृतीयासमर्थाद्रागविशेषवाचिनः शब्दाद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् । रागादिति किम् । देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति । उपमानाद्भविष्यति, काषायाविव काषायौ । हारिद्राविव हारिद्रौ । इहैवेयान्नादरिति यावत्तृतीयासमर्थविभक्तिरनुवर्त्तते ॥ लाक्षारोचनाशकलकर्दमाट्ठक् ॥ २ ॥
- उरस । पा० २ ।