भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

२९४ ॥ काशिका ॥ ४ ॥ २ ॥ अतश्च ॥ १७७ ॥ स्त्रियामित्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भ- वति । तकारो विस्पष्टार्थः । शूरसेनी । मद्री । दरत् । अवन्त्यादिभ्यो लुग्व- चनात् तदन्तविधिरत्र नास्ति तेनेह न भवति । आम्बष्ठ्या । सौवीर्या ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥ प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग्न भवति । अतश्चे- त्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाञ्चाली । वैदेही । आङ्गी । वाङ्गी । मागधी । भर्गादिभ्यः । भार्गी । कारुषी । कैकेयी । यौधेयादिभ्यः । यौधेयी । शौभ्रेयी । शौक्रेयी । कस्य पुनरकारस्य प्रत्ययस्य यौधे- यादिभ्यो लुक् प्राप्तः प्रतिषिध्यते । पाञ्चमिकस्याञः पर्श्वादिद्यौधेयादिभ्याम- णञावित्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति । एतदेव विज्ञापयति पाञ्चमिकस्यापि तद्राजस्यातश्चेत्यनेन लुग्भवतीति । किमेतस्य ज्ञा- पनेन प्रयोजनं पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति । पर्शूः । रक्षाः । आसुरी । तथा चोक्तं "यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति" । भर्ग । करुष । केकय । कश्मीर । साल्व । सुस्याल । उरश * । कौरव्य । भर्गादिः । यौधेय । शौभ्रेय । शौक्रेय । यावाणेय । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । यौधेयादिः ॥ ॥ इति काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥ ॥ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ तेन रक्तं रागात् ॥ १ ॥ शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यते ऽनेनेति रागः । तेनेति तृतीयासमर्थाद्रागविशेषवाचिनः शब्दाद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् । रागादिति किम् । देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति । उपमानाद्भविष्यति, काषायाविव काषायौ । हारिद्राविव हारिद्रौ । इहैवेयान्नादरिति यावत्तृतीयासमर्थविभक्तिरनुवर्त्तते ॥ लाक्षारोचनाशकलकर्दमाट्ठक् ॥ २ ॥

  • उरस । पा० २ ।

॥ काशिका ॥ ४ । २ ॥ २८५ लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । अणोपवादः । लाक्षया रक्तं वस्त्रं, लाक्षिकम् । रोचनिकम् । शाक- लिकम् । कार्द्दमिकम् ॥ शकलकर्द्दमाभ्यामणपीष्यते ॥ शाकलम् । कार्द्दमम् ॥ नील्या अन् वक्तव्यः ॥ * ॥ नील्या रक्तं नीलं वस्त्रम् ॥ पीतात् कन् वक्त- व्यः ॥ * ॥ पीतेन रक्तं पीतकम् ॥ हरिद्रामहारजनाभ्यामञ्वक्तव्यः ॥ * ॥ हारिद्रम् । माहारजनम् ॥ नक्षत्रेण युक्तः कालः ॥ ३ ॥ तृतीया समर्थविभक्तिरनुवर्त्तते । तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवा- चिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः, कालश्चेत्स भवति । कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते । पुष्यादि- समीपस्थे चन्द्रमसि वर्त्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति । पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौष- महः । माघी रात्रिः । माघमहः । नक्षत्रेणेति किम् । चन्द्रमसा युक्ता रात्रिः । काल इति किम् । पुष्येण युक्तश्चन्द्रमाः ॥ लुबविशेषे ॥ ४ ॥ पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते । यावान् कालो नक्षत्रेण युज्यते ऽहोरात्र- स्तस्याविशेषे लुब् भवति । अद्य पुष्यः । अद्य कृतिकाः । अविशेषइति किम् । पौषी रात्रिः । पौषमहः ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५ ॥ अविशेषे लुब्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवणशब्दादश्वत्थ- शब्दाच्चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये । श्रवणा रात्रिः । अश्वत्थो मुहूर्त्तः । लुपि युक्तवद्भावः कस्मान्न भवति । निपातनाद् विभाषा फाल्गुनीश्रवणाकार्त्तिकीति । संज्ञायामिति किम् । श्रावणी आश्वत्थी रात्रिः ॥ द्वन्द्वाच्छः ॥ ६ ॥ नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे । अद्य राधानुराधी- यम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद् बाधते ॥ दृष्टं साम ॥ ७ ॥ तेनेति तृतीयासमर्थाद् दृष्टं सामित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । यद् दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्टं, क्रौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ॥

२७६ ॥ काशिका ॥ ४ ॥ २ ॥ कलेर्ढक् ॥ ८ ॥ कलिशब्दात्तृतीयासामर्थ्याद् दृष्टं सामेत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति । अणोऽपवादः । कलिना दृष्टं साम, कालेयम् ॥ सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः ॥ * ॥ अग्निना दृष्टमाग्नेयम् । एवमग्नौ भवमग्नेरागतमग्नेः 'स्वमिति सर्वत्र ढगेव भवति । आग्नेयम् । तथा कालेयमपि प्रतिपत्तव्यम् ॥ दृष्टे सामनि अण् वा डिद्वतीति वक्तव्यम् ॥ * ॥ उशनसा दृष्टं साम, औशनसम् । औशनम् ॥ जाते चार्थे योऽन्येन बाधितः पुनर्र्विधीयते स वा डिद्वतीति वक्तव्यम् ॥ * ॥ प्राग्दीव्यतोऽण् प्राप्तः कालठञा बाधितः सन्धिवेलाद्यृतुनक्षत्रेभ्य इति पुनर्विधी- यते स वा डिद्वतीति वक्तव्यम् । शतभिषजि जातः शतभिषः । शातभिषजः ॥ तीयादीकक् स्वार्थे वा वक्तव्यः ॥ * ॥ द्वैतीयीकम् । तार्तीयीकम् । द्वितीय- कम् । तृतीयकम् ॥ न विद्यायाः ॥ * ॥ द्वितीया तृतीया विद्या ॥ गोत्रादङ्- वद्विष्यति ॥ * ॥ दृष्टं सामेत्यस्मिन्नर्थे । औपगवेन दृष्टं साम, औपगवकम् । कापटवकम् । गोत्रचरणाद्वुञ् भवति । दृष्टे सामनि जाते च द्विरणिद्वद् विधीयते । तीयादीकक् न विद्याया गोषादङ्ग्वद्विष्यते ॥ वामदेवाड् ड्यड्ढ्यौ ॥ ९ ॥ वामदेवशब्दात्तृतीयासामर्थ्याद्दृष्टं सामेत्यस्मिन्नर्थे ड्यत् ढ्य इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । वामदेवेन दृष्टं साम, वामदेव्यं साम । तित्क- रणं स्वरार्थम् । डित्करणं किमर्थे, ययतोश्चातदर्थ इति नञ उत्तरस्यान्तोदा- त्तत्वे विधीयमाने ऽनयोर्ग्रहं मा भूत् । अननुबन्धकग्रहणपरिभाषया एकानु- बन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते । अवामदेव्यम् । सिद्धे यस्येतिलोपेन किमर्थं ययतोः डितौ । ग्रहणं मा ऽतदर्थे भूदामदेव्यस्य नञ्स्वरे ॥ परिवृतो रथः ॥ १० ॥ तेनेति तृतीयासामर्थ्यात्परिवृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत्स भवति । वस्त्रेण परिवृतो रथः, वास्त्रो रथः। काम्बलः । चार्मणः । रथ इति किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । यस्य न कश्चिदवयवो वस्त्रादिभिरवेष्टितः तेनेह न भवति । काष्ठैः परिवृतो रथः ॥ पाण्डुकम्बलादिनिः ॥ ११ ॥

॥ काशिका ॥ ४ । २ ॥ २८७ पाण्डुकम्बलशब्दात्तृतीयासमर्थात्परिवृतो रथ इत्येतस्मिन्नर्थे इनिः प्रत्य- यो भवति । अणोपवादः । पाण्डुकम्बली । पाण्डुकम्बलिनौ । पाण्डुकम्बलिनः । पाण्डुकम्बलशब्दो राजास्तरस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमयो निवृत्त्यर्थम् ॥ द्वैपवैयाघ्रादञ् ॥ १२ ॥ द्वीपिब्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथ इत्येतस्मिन्नर्थे ऽञ् प्रत्ययो भवति । अणोपवादः । स्वरे विशेषः । द्वैपेन परिवृतो रथो द्वैपः । वैयाघ्रः ॥ कौमारापूर्ववचने ॥ १३ ॥ कौमार इत्येतदणप्रत्ययान्तं निपात्यते ऽपूर्ववचने । पाणिग्रहणास्यापूर्व- वचनम् । उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत् । अपूर्वपतिं कुमारीं पतिरुप- पन्नः कौमारः पतिः । कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः । अपूर्व- पतिः कुमारी पतिमुपपन्ना कौमारी भार्या । प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपू- र्वत्वे द्योत्ये । कौमारापूर्ववचने कुमार्या अभिधीयते । अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा ॥ कुमार्या भवः कौमारः, तस्य स्त्री कौमारी भार्येति सिद्धम् ॥ तत्रोद्धृतममत्रेभ्यः ॥ १४ ॥ तत्रेति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथावि- हितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धेः । अमत्रं भाजनं पात्रमुच्यते । शरावेषूद्धृतः शाराव ओदनः । माल्लिकः । कार्परः । अम- त्रेभ्य इति किम् । पात्रादुद्धृत ओदनः । तत्रेति सप्तमी समर्थविभक्तिः चीरा- ड्ढञिति यावदनुवर्तते ॥ स्थण्डिलाच्छयितरि व्रते ॥ १५ ॥ स्थण्डिलशब्दात्सप्तमीसमर्थाच् शयितर्यभिधेये यथाविहितं प्रत्ययो भ- वति, समुदायेन चेद्व्रतं गम्यते । व्रतमिति शास्त्रतो नियम उच्यते । स्थण्डिले शयितुं व्रतन्स्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी । व्रतइति किम् । स्थण्डिले शेते भ्रष्टव्रतः ॥ संस्कृतं भक्षाः ॥ १६ ॥ तत्रेति सप्तमीसमर्थात्संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्संस्कृतं भक्षाश्चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं भक्षमित्युच्यते । सक्तु

३८८ ॥ काशिका ॥ ४ ॥ २ ॥ उत्कर्षाधानं संस्कारः । भ्राष्ट्रे संस्कृता भक्ता भ्राष्ट्रा अपूपाः । कालशाः । कौम्भाः । भक्ता इति किम् । पुष्पपुटे संस्कृतो मालागुच्छः ॥ शूलोखाद्यत् ॥ १७ ॥ शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उख्यम् ॥ दध्नष्ठक् ॥ १८ ॥ दधिशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ठक् प्रत्ययो भव- ति । दध्नि संस्कृतं, दाधिकम् । ननु च संस्कृतार्थे प्राग्वहतेष्ठकं वक्ष्यति तेनैव सिद्धम् । न सिद्ध्यति । दध्ना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण लवणादिना संस्कारः क्रियते ॥ उदश्वितो ऽन्यतरस्याम् ॥ १९ ॥ उदश्विच्छब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ऽन्यतरस्यां ठक् प्रत्ययो भवति । पक्षे यथाप्राप्तमण्‍ भवति । औदश्वितम् । औदश्वित्कम् ॥ क्षीराड्ढञ् ॥ २० ॥ क्षीरशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भव- ति । अणोऽपवादः । क्षीरे संस्कृता, क्षैरेयी यवागूः ॥ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ २१ ॥ सेति प्रथमासमर्थाद् अस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति इतिकरणस्ततश्चेद्विवक्षता । संज्ञायामिति समुदायोपाधिः, प्रत्ययान्तेन चेत्संज्ञा गम्यतइति । मासाद्र्धमाससंवत्सराणामेषा संज्ञा । पौषी पौर्णमासी अस्मिन्नसौ मासः । पौषोऽर्द्धमासः । पौषः संवत्सरः । इह न भवति । पौषी पौर्णमासी अस्मिन्दशरात्रइति । मृतकमासे । च न भवति । इतिकरणस्य संज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसारणं, तत्र किमर्थं द्वयमुपादीयते, संज्ञाशब्देन तुल्यतामिति करणस्य ज्ञापयितुं, नह्ययं लोके तथा प्रसिद्धः । संज्ञार्थत्वे तु संप्रति ज्ञापिते यत्ततश्चोच्यते इतिकरणस्ततश्चेद्विवक्षेति तदुपपन्नं भवति । अथ पौर्णमासीति कोऽयं शब्दः । पूर्णमासादण्, पौर्णमासी । अथ वा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी । मा इति चन्द्र उच्यते ॥ आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥ सास्मिन्पौर्णमासीति सर्वमनुवर्तते । आग्रहायणीशब्दादश्वत्थशब्दाच्च प्रथमासमर्थात्पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति । अणोऽपवादः । आग्रहायणिको मासः । अर्द्धमासः । संवत्सरः । एवमाश्वत्थिकः ॥

॥ काशिका ॥ ४ ॥ २ ॥ २९९ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ २३ ॥ फाल्गुन्यादयः पौर्णमासीशब्दास्तेभ्यो विभाषा ठञ् प्रत्ययो भवति, सास्मिन्पौर्णमासीति संज्ञायामित्येतस्मिन्विषये। नित्यमण् प्राप्ते पक्षे ठग्वि- धीयते। फाल्गुनो मासः। फाल्गुनिकः। श्रावणः। श्रावणिकः। कार्तिकः। कार्त्तिकिकः। चैत्रः। चैत्रिकः॥ सास्य देवता ॥ २४ ॥ सेति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथ- मासामर्थ्यं देवता चेत्सा भवति। यागसंप्रदानं देवता देयस्य पुरोडाशादेः स्वा- मिनी, तस्मिनभिधेये प्रत्ययः। इन्द्रो देवता ऽस्य ऐन्द्रं हविः। आदित्यम्। बार्ह- स्पत्यम्। प्राजापत्यम्। देवतेति किम्। कन्या देवता ऽस्य। कथमैन्द्रो मन्त्रः। मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति। कथमाग्नेयो वै ब्राह्मणो देवतयेति, उपमा- नाद्भविष्यति। महाराजप्रोष्ठपदाट्ठञिति यावत्सास्य देवतेत्यधिकारः। सेति प्रकृते पुनः समर्थविभक्तिनिर्देशः संज्ञानिवृत्त्यर्थः॥ कस्येत् ॥ २५ ॥ कशब्दो देवतायां प्रजापतेर्वाचकस्ततः पूर्वेणैवाण्प्रत्ययः सिद्ध इकारा- देशार्थं वचनम्। कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः। कायमेककपालं निर्वपेत्॥ शुक्राद् घन् ॥ २६ ॥ शुक्रशब्दात्सास्य देवतेत्यस्मिन्नर्थे घन् प्रत्ययो भवति। अणोपवादः। शुक्रियं हविः। शुक्रियोध्यायः॥ अपोनप्तृपान्नप्तृभ्यां घः ॥ २७ ॥ अपोनप्तृ अपानप्तृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन्वि- षये। अणोपवादः। अपोनप्त्रियं हविः। अपानप्त्रियम्। अपोनपाद् अपांनपा- दिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥ छ च ॥ २८ ॥ अपोनप्तृ अपानप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सास्य देवतेत्यस्मि- न्विषये। अणोपवादः। अपोनप्त्रीयं हविः। अपानप्त्रीयम्। योगविभागः संख्या- तानुदेशपरिहारार्थः॥ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्॥ * ॥ पैङ्गाक्षीपुत्री- यम्। तार्क्षबिन्दवीयम्॥ शतरुद्राच्छश्चघश्च॥ * ॥ शतरुद्रीयम्। शतरुद्रियम्॥ महेन्द्राद् घाणौ च ॥ २९ ॥

३०० काशिका ॥ ४ ॥ २ ॥ महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मि- न्विषये । महेन्द्रो देवतास्य महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥ सोमाट् ट्यण् ॥ ३० ॥ सोमशब्दात् ट्यण्प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोपवादः । णकारो वृद्धयर्थः । टकारो ङीबर्थः । सोमो देवतास्य सौम्यं हविः । सौम्यं सूक्तम् । सौमी ऋक् ॥ वाय्वृतुपित्रुषसो यत् ॥ ३१ ॥ वाय्वादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति सास्य देवतेत्येतस्मिन्विषये । अणोपवादः । वायुर्देवतास्य वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् ॥ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च ॥ ३२ ॥ द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणो ण्यस्य चापवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य, द्यावापृथि- वीयम् । द्यावापृथिव्यम् । शुनश्च सीरश्च तौ देवते अस्येति, शुनासीरीयम् । शुनासीर्यम् । शुनो वायुः । सीर आदित्यः । मरुत्वान्देवतास्य, मरुत्वतीयम् । मरुत्वत्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ अग्नेर्ढक् ॥ ३३ ॥ अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोप- वादः अग्निर्देवतास्य, आग्नेयो ऽष्टाकपालः ॥ प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्व- त्राग्निकलिभ्यां ढग्वक्तव्यः ॥ * ॥ कालेभ्यो भववत् ॥ ३४ ॥ कालविशेषवाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति सास्य देवतेत्यस्मि- न्विषये । कालाट्ठञिति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सास्य देवतेत्यस्मि- न्नर्थे तथेष्यन्ते, तदर्थमिदमुच्यते । वत्करणं सर्वसादृश्यपरिसङ्ख्यार्थम् । मासे भवं मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा, मासो देवतास्य, मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ॥ महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥ महाराजशब्दात्प्रोष्ठपदशब्दाच्च ठञ् प्रत्ययो भवति सास्य देवतेत्य- स्मिन्विषये । महाराजो देवतास्य माहाराजिकम् । प्रौष्ठपदिकम् ॥ ठञ्प्रक-

॥ काशिका ॥ ४ । २ ॥ ३०१

रखे तदस्मिन्वर्ततइति नवयज्ञादिभ्य उपसंख्यानम् ॥ * ॥ नवयज्ञोऽस्मिन्वर्तते, नावयज्ञिकः कालः । पाक्यज्ञिकः ॥ पूर्णमासादण् ॥ * ॥ पूर्णमासो ऽस्यां वर्तते पौर्णमासी तिथिः ॥ पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः प्रत्ययः प्रत्ययार्थो ऽनुबन्ध इति सर्वं निपातनाद्विज्ञेयम् । पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलच् इत्येतौ प्रत्ययौ निपात्येते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । ताभ्यां पितरि डामहच्, मातरि षिच्च । ताभ्यामेव पितरि डामहच् प्रत्ययो भवति । पितुः पिताः, पितामहः । मातुः पिता, मातामहः । मातरि षिच्च । पितामही । मातामही ॥ अवेर्दुग्धे सोढदूसमरोसचो वक्तव्याः ॥ * ॥ अवेर्दुग्धम्, अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलाच्चिष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ ॥ * ॥ निष्फलस्तिल, स्तिलपिञ्जः । तिलपेजः ॥ पिञ्जश्छन्दसि डित्वं ॥ * ॥ तिलिपञ्जः ॥ तस्य समूहः ॥ ३७ ॥ तस्येति षष्ठीसमर्थात्समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । किमिहोदाहरणम् । चित्तवदाद्युदात्तमगोत्रं यस्य च नान्यत्प्रतिपदं ग्रहणम् । अचित्ताट्ठकं वक्ष्यति, अनुदात्तादेरञ्, गोत्राद्वुञ्, प्रतिपदं च केदाराञ्जञ्वेत्येव- मादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम् । काकानां समूहः, काकम् । बाकम् । इनित्रकद्वयचश्चेति यावत्समूहाधिकारः ॥ गुणादिभ्यो ग्रामज्वक्तव्यः ॥ * ॥ गुण- ग्रामः । करणग्रामः । गुण । करण । तत्त्व । शब्द । इन्द्रिय । आकृतिगणः* ॥ भिक्षादिभ्यो ऽण् ॥ ३८ ॥ भिक्षेत्येवमादिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि- षये । अण ग्रहणं बाधकबाधनार्थम् । भिक्षाणां समूहो, भैक्षम् । गर्भिणम् । युव- तिशब्दोऽत्र पठ्यते, तस्य यञ्लुक्सामर्थ्याद् पुंवद्भावो न भवति भस्याढे तद्धितेऽति । युवतीनां समूहो, यौवतम् । भिक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । धर्मिन् † । सहस्र । युवति । पदाति । पद्धति । अथर्वन् ‡ । दक्षिणा । भूत § ॥


  • गुणादिभ्य इत्यारभ्याकृतिगण इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति । † चर्मन् । धर्मन् । इति पा० ४ । ‡ अर्वन् । इति पा० २ । § विषय । योत्र ॥ सूत्रातिथ्यः खण्डः ॥ युक्तखण्डः । तक्षकखण्डः । वृक्ष । तरु । पाद- प । इत्याधिकमत्र पुस्तकद्वये । तत्रै कस्मिन् पुस्तके "वृक्षादिभ्यः खण्डप्रत्ययो भवति । वृक्षखण्डः तरुखण्डः" । इति पा० ३ ।

३०२ ॥ काशिका ॥ ४ । २ ॥ गोत्रोष्ट्रोरभ्रराजन्यराजपुत्रवत्सम- नुष्याजाद् वुञ् ॥ ३९ ॥ गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । अप- त्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं न तु पौत्रप्रभृत्येत्र । औप- गवानां समूहः, औपगवकम् । कापटवकम् । उत्तन् । औत्तकम् । उष्ट्र । औष्ट्र- कम् । उरभ्र । औरभ्रकम् । राजन् । राजकम् । राजन्य । राजन्यकम् । राज- पुत्र । राजपुत्रकम् । वत्स । वात्सकम् । मनुष्य । मानुष्यकम् । अज । आज- कम् । "प्रकृत्या ऽके राजन्यमनुष्ययुवान" इति यलोपो न भवति आपत्यस्य च तद्धिते नातीति ॥ वृद्धाच्चेति वक्तव्यम् ॥ * ॥ वृद्धानां समूहो, वार्द्धकम् ॥ केदाराद्यञ् ॥ ४० ॥ केदारशब्दाद् यञ्प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्ये- तस्मिन्विषये । अचित्तलक्षणस्य ठञो ऽपवादः । केदाराणां समूहः, कैदार्यम् । कैदारकम् ॥ गणिकायाश्च यद्वक्तव्यः ॥ * ॥ गणिकानां समूहो, गाणिक्यम् ॥ ठञ् कवचिनश्च ॥ ४१ ॥ कवचिन्शब्दाट्ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । कव- चिनां समूहः, कावचिकम् । चकारः केदारादित्यस्यानुकर्षणार्थः केदाराणां समूहः, कैदारिकम् ॥ ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ब्राह्मणादिभ्यः शब्देभ्यो यन्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि- षये । नकारः स्वरार्थः । ब्राह्मणानां समूहो, ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ यन्प्रकरणे पृष्ठादुपसंख्यानम् ॥ * ॥ पृष्ठानां समूहः, पृष्ठ्यः ॥ अह्नः खः क्रतौ ॥ * ॥ अह्नां समूहो, ऽहीनः क्रतुः । क्रताविति किम् । आह्नः । सखण्डिकादिषु दर्श- नादञ्भवति ॥ पर्श्वा णस्वक्तव्यः ॥ * ॥ पर्शूनां समूहः, पार्श्वम् । पदसंज्ञकत्वाद् गुणो न भवति ॥ वातादूलः ॥ * ॥ वातानां समूहो, वातूलः* ॥ ग्रामजनबन्धुसहायेभ्यस्तल् ॥ ४३ ॥ ग्रामादिभ्यस्तल्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । ग्रामाणां समूहः, ग्रामता । जनता । बन्धुता । सहायता ॥ गजाच्चेति वक्तव्यम् ॥ * ॥ गजानां समूहो, गजता ॥ अनुदात्तादेरञ् ॥ ४४ ॥

  • वातादित्यारभ्यः वातूल इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति ।

अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये कपोतानां समूहः, कापोतम् । मायूरम् । तैत्तिरम् ॥ खण्डिकादिभ्यश्च ॥ ४५ ॥ खण्डिका इत्येवमादिभ्यः शब्देभ्यो ऽञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्डिकानां समूहः, खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोऽत्र पठ्यते । क्षुद्रकाश्च मालवाश्चेति क्षत्रियद्वन्द्वः । ततः पूर्वेणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् । ननु च पर- त्वादञा वुञ् बाधिष्यते । न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिर- त्रास्ति । एवं तर्हि एतञ् ज्ञापयति वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तद- न्तविधिरस्तीति । प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति । वानह- स्तिकं गौधेनुकमिति च तदन्तविधिः । क्षुद्रकमालवादित्येतावता योगविभा- गेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासं- ज्ञायामिति । क्षुद्रकमालवात्सेनासंज्ञायामेवाञ्भवति । क्षौद्रकमालवी सेना । क्षौद्रकमालवकमन्यतत् * । अञ्सिद्धिरनुदात्तादेः को ऽर्थः क्षुद्रकमालवात् । गोत्राद्वुञ् न च तद्गोत्रं तदन्तान्न च सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः । सेनायां नियमार्थे च यथा बाध्येत चाञ् वुञा ॥ खण्डिका । वडवा ॥ क्षुद्रकमालवात्सेनासंज्ञायाम् ॥ भितुक । शुक । उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध ॥ चरणेभ्यो धर्मवत् ॥ ४६ ॥ चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति । गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चर- णाद्धर्माम्नाययोरिति, तेन धर्मवदित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः । कठानां धर्मः, काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्व- णम् । तथा समूहेपि । काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्वणम् † ॥

  • गोत्रलक्षणो वुञेव भवतीत्यधिकं पुस्तकान्तरे । † ननु धर्मे न कोपि प्रत्ययो विधास्यते, कथं धर्मवदित्यतिदेशः। एतदेव ज्ञापयति वार्तिककारो गोत्रचरणाद्वुञित्यस्मिन्प्रकरणे सर्वशेषत्वेन 'चरणाद्धर्माम्नाययोरिति वक्ष्यति' तस्म- न्मतः पाणिनेरप्यभिमतमिति । इत्यधिकमेकस्मिन्पुस्तके ॥

३०४ ॥ काशिका ॥ ४ ॥ २ ॥ अचित्तहस्तिधेनोष्ठक् ॥ ४७ ॥ अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । अणञोरपवादः । अपूपानां समूह, आपूपिकम् । शाष्कु- लिकम् । हास्तिकम् । धैनुकम् ॥ धेनोरनञ इति वक्तव्यम् ॥ * ॥ आधेनवम् ॥ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४८ ॥ केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतो ऽन्य- तरस्यां तस्य समूह इत्येतस्मिन्विषये । केशानां समूहः, कैश्यम् । कैशिकम् । अश्वानां समूह, आश्वम् । आश्वीयम् ॥ पाशादिभ्यो यः ॥ ४९ ॥ पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । पाशानां समूहः, पाश्या । तृण्या * । पाश । तृण । धूम । वात । अङ्गार । पोत । बालक । पिटक । पिटाक । शकट । हल । नड । वन † ॥ खलगोरथात् ॥ ५० ॥ खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । खलानां समूहः, खल्या । गव्या । रथ्या । पाशादिष्वपाठ उत्तरार्थः ‡ ॥ इनित्रकत्यचश्च ॥ ५१ ॥ खलगोरथशब्देभ्यो यथासंख्यम् इनि त्र कत्यच् इत्येते प्रत्यया भवन्ति तस्य समूह इत्येतस्मिन्विषये । खलिनी । गोत्रा । रथकत्या ॥ खलादिभ्य इनिर्वक्तव्याः ॥ * ॥ डाकिनी । कुण्डलिनी । कुटुम्बिनी ॥ कमलादिभ्यः खण्डच् प्रत्ययो भवति ॥ * ॥ कमलखण्डम् । अम्भोजखण्डम् । कमल । अम्भोज । पद्मिनी । कुमुद । सरोज । पद्म । नलिनी । कैरविणी । कमलादि- राहातिगणः ॥ नरकरितुरङ्गाणां स्कन्धच् प्रत्ययः ॥ * ॥ नरस्कन्धः । करि- स्कन्धः । तुरङ्गस्कन्धः ॥ पूर्व्वादिभ्यः काण्डः प्रत्यये भवति ॥ * ॥ पूर्व्वका- ण्डम् । मुक्ताकाण्डम् । कर्मकाण्डम् § ॥ विषयो देशे ॥ ५२ ॥ समूह इति निवृत्तम् । षष्ठी समर्थविभक्तिरनुवर्त्तते । तस्येति षष्ठीस- मर्थाद् विषय इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयो देश-

  • अत्र स्त्रीलिङ्गत्वं लोकाव्यत्वाल्लिङ्गस्येत्यधिकं पुस्तकान्तरे । † पाटलका । गल । इत्यधिकं पुस्तकान्तरे । ‡ योगविभाग उत्तरार्थः । पा० ३ । § कमलादिभ्य इत्यारभ्य कर्मकाण्डमित्यन्तः पाठ एकस्मिन्पुस्तके नास्ति ।

॥ काशिका ॥ ४ ॥ २ ॥ ३०५

श्चेत्स भवति । विषयशब्दो बह्वर्थः । क्व चित्ग्रामसमुदाये वर्तते, विषयो लब्ध इति । क्व चिदिन्द्रियार्थे, चक्षुर्विषयो रूपमिति । क्व चिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयो ऽनुवाक इति । क्व चिदन्यत्राभावे, मत्स्यानां विषयो जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः, शैबः । चौड्रः । देशइति किम् । देवदत्तस्य विषयो ऽनुवाकः ॥ राजन्यादिभ्यो वुञ् ॥ ५३ ॥ राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशश्चेत्येतस्मिन्नर्थे । अणोपवादः । राजन्यानां विषयो देशः, राजन्यकः । दैवयानकः । आकृतिगण- श्चायम् । मालवानां विषयो देशः, मालवकः । वैराटकः । नैगर्तकः । राजन्य । दैवयान । शाल्ङ्कायन । जालन्धरायण । आत्मकामेय । आम्बरीषपुत्र । वसाति । बैल्ववन । शैलूष । उदुम्बर । बैल्वल । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ * ॥ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५४ ॥ भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ प्रत्ययौ भवतो विषयो देशइत्येतस्मिन्विषये । अणोपवादः । भौरिकिविधः । वैपेयविधः । ऐषुकार्यादिभ्यः । ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि । वैपेय । भोलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक । शैलूयत । बैकयत । भौरिक्यादिः ॥ ऐषुकारि । सारस्यायन । चान्द्रायण । द्वाक्षायण । त्र्यायण । औडायन । जौलायन । खाडायन । सौवीर । दास- मिति । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्क्ष्यायक । नौधायण । सायण्ड । शौण्डि । वैश्वमानव । वैश्वधेनव । नद । तुण्डदेव । विश्रदेव † ॥ सोस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ५५ ॥ स इति समर्थविभक्तिः । अस्येति प्रत्ययार्थः । आदिरिति प्रकृतिविशे- षणम् । इतिकरणो विवक्षार्थः । छन्दस इति प्रकृतिनिर्देशः । प्रगाथेष्विति प्रत्ययार्थविशेषणम् । स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्येति निर्दिष्टं प्रगाथा- श्चेत्ते भवन्ति, इतिकरणस्ततश्चेद्विवक्षा । पङ्क्तिरादिरस्य, पाङ्क्तः प्रगाथः । आनु- ष्टुभः । जागतः । आदिरिति किम् । अनुष्टुम्मध्यमस्य प्रगाथस्य । छन्दस इति किम् । उदुत्यञ्छब्द आदिरस्य प्रगाथस्य । प्रगाथेष्विति किम् । पङ्क्तिरादिरस्या-

  • आप्रीत । अव्रोड । वैतिल । वात्रक । एते ऽधिकाः पुस्तकान्तरे । † अलायत । औलालायत । शैयण्ड । भयायण्ड । वैश्वदेव । एते शब्दा अधिकाः पुस्त- कान्तरे । २०

नुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्व चिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते स प्रगाथनात्मकवर्णगानाद्वा प्रगाथ इत्युच्यते ॥ छन्दसः प्रत्ययविधाने नपुंसके स्वार्थेउपसंख्यानम् ॥ * ॥ त्रैष्टुभमेव त्रैष्टुभम्। जागतम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ५६ ॥ सोस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते । प्रथमासमर्थविशेषणं, प्रयोजनं योद्धारश्च । प्रत्ययार्थविशेषणं संग्रामः । प्रयोजनवाचिभ्यो योद्धृवाचि- भ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यो ऽस्येति षष्ठ्यर्थे संग्रामे ऽभिधेये यथाविहितं प्रत्ययो भवति । भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः । सौभद्रः । गैरिमित्रः । योद्धृभ्यः । अह्निमाला योद्धारो ऽस्य संग्रामस्य, आह्रिमालः । स्यन्दनाश्वः । भारतः । संग्रामइति किम् ।

Here is the line-by-line transcription of the Sanskrit text from the provided image:

॥ काशिका ॥ ४ ॥ २ ॥ ३०७ क्रतूक्थादिसूत्रान्ताट्ठक् ॥ ६० ॥ ऋतुविशेषवाचिभ्य उक्थादिभ्यश्च सूत्रान्ताच्च ठक्प्रत्ययो भवति तद- धीते तद्वेदेत्यस्मिन्विषये। अणोऽपवादः। अग्निष्टोममधीते वेद वा, आग्निष्टो- मिकः। वाजपेयिकः। उक्थादिभ्यः। औक्थिकः। लौकायतिकः। सूत्रान्तात्। वार्तिकसूत्रिकः। सांख्यसूत्रिकः॥ सूत्रान्तादकल्पादेरिष्यते॥ कल्पसूत्रमधीते काल्पसूत्रः। अणेव भवति। उक्थशब्दः केषु चिदेव सामसु रूढः। यन्नायज्ञी- यात्परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि सामलक्षणे औक्थिक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। उक्थमधीते, औक्थिकः। औक्थिक्यमधीत इत्यर्थः

३०८ ॥ काशिका ॥ ४ ॥ २ ॥ अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये । अणोऽपवादः । ब्राह्मणसदृशो ऽयं ग्रन्थो ऽनुब्राह्मणम् । तदधीते, ऽनुब्राह्मणी । अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्वर्थेनात इनिठनाविति इनिनासिद्धम् । तन्नैतस्माद्वपि प्राप्नोति, अनभिधानाच्च भविष्यति । अणोनिवृत्त्यर्थं तर्हि वच- नम् ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ वसन्त इत्येवमादिभ्यष्ठक्प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये। अणोऽपवादः । वसन्तसहचरितोयं ग्रन्थो वसन्त,स्तमधीते, वासन्तिकः । वार्षि- कः । वसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुहा । चरम । अनु- गुहा । आपर्वन् । आथर्वन् ॥ प्रोक्ताल्लुक् ॥ ६४ ॥ प्रोक्तसहचरितः प्रत्ययः प्रोक्तः । प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य लुग्भवति । पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः । आपिशलः । स्त्रियां स्वरे च विशेषः । पाणिनीया ब्राह्मणी ॥ सूत्राच्च कोपधात् ॥ ६५ ॥ सूत्रवाचिनः ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग्भवति । अप्रोक्तार्थ आर- म्भः । पाणिनीयमष्टकं सूत्रं तदधीते, चाष्टकाः पाणिनीयाः दशका वैयाघ्रप- दीयाः । त्रिकाः काशकृत्स्नाः ॥ संख्याप्रकृतेरिति वक्तव्यम् ॥ * ॥ इह मा भूत् । महावार्त्तिकं सूत्रमधीते, माहावार्त्तिकः । कालापकमधीते, कालापकः । कोप- धादिति किम् । चतुष्टयमधीते, चातुष्टयः ॥ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥ प्रोक्तग्रहणमनुवर्त्तते । छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्वि- षयाण्येव भवन्ति । अध्येतृवेदितृप्रत्ययविषयाणि । अनन्यभावो विषयार्थः । तेन स्वातन्त्र्यमुपाद्यन्तरयोगे वाक्यं च निवर्त्तते । कठेन प्रोक्तमधीयते, कठाः । मौदाः । पैप्पलादाः । आर्चायिनः । वाजसनेयिनः । ब्राह्मणानि खल्वपि । ताण्डिनः । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । ब्राह्मणग्रहणं किम् । यावता छन्द एव तत् । ब्राह्मणविशेषप्रतिपत्त्यर्थ,मिह तद्विषयता मा भूत् । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि, याज्ञवल्क्यानि । सौलभानि । चकारो ऽनुक्त- समुच्चयार्थः । कल्पे । काश्यपिनः । कौशिकिनः । सूत्रे । पाराशरिणो भिक्षवः । शैलालिनो नटाः । कर्म्मन्दिनः । कृशाश्विनः । छन्दोब्राह्मणानीति किम् । पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ॥

: "चा" + "र्जु" + "ना" + "वो" = "चार्जुननावो"? Wait! Is it: "चार्जर्जुनावो"? Wait, look at the first character of L16: Is it 'च'? Wait! "चर्जुनावा..."? No, why would it be 'च'? Wait, what is the sutra? "तस्य निवासः ॥ ६९ ॥" Wait, could it be: "अर्जुनावा..."? Wait, let's compare character 1 of L16 with 'अ' in 'अदूरभवश्च' (L18), 'अञधिकारः' (L27), 'अणोऽपवादः' (L25): In L25: 'अ' in 'अणोऽपवादः': it's a standard 'अ'. In L16: the first character is NOT 'अ'. It has a rounded back like 'च' or 'श' or 'ऋ'. Wait, look at 'ऋ' in 'ऋतुमती' in L27: LOOK AT L27: "इक्षुमती ।" before it is "ऋतुमती"?! Wait, L27 says: "परत्वान्मत्तुब्भवति । ऋतुमती । अञधिकारः..." Wait! Is it "ऋतुमती" or "इक्षुमती"? Look at L27: "परत्वान्मत्

३६० ॥ काशिका ॥ ४ ॥ २ ॥ दिति किम् । आहिमतम् । यावमतम् । अङ्गग्रहणं बहुजिति तद्विशेषणं यथा विज्ञायेत, मत्वन्तविशेषणं मा विज्ञायीत । मालावतां निवासो, मालावत्तम् ॥ बह्वचः कूपेषु ॥ ७३ ॥ बह्वचः प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेषु । अञोपवादः । यथासंभवमर्थाः संबध्यन्ते । दीर्घवरत्रेण निर्वृत्तः कूपः, दैर्घव- रत्रः कापिलवरत्रः ॥ उदक्च विपाशः ॥ ७४ ॥ विपाश उत्तरे कूले ये कूपास्तेष्वभिधेयेष्वञ् प्रत्ययो भवति चातुर- र्थिकः । अञोपवादः । अबह्वजर्थे आरम्भः । दत्तेन निर्वृत्तः कूपो, दात्तः । गौप्तः । उदगिति किम् । दक्षिणतो विपाशः कूपेष्वप्येव । दात्तः । गौप्तः । स्वरे विशेषः । महती सू

Yes! The sentence in Kashika is: "रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च ।" In this print, the 'प्र' in 'प्रत्यय' might be slightly deformed or missing a loop, looking like 'त्', but the intended reading is definitely "सर्वावस्थोऽण्प्रत्यय-". Let's look at it: it has ऽ, ण, then a conjunct with a stroke to the left: it's actually 'प्र' where the loop is small, and 'त्य' or 'य'! Wait, it says: "ऽण्प्रत्यय-"!

Line 7 : मुत्पादयति, केवलस्तदन्तश्च । रौणः । आजकरोणः । सैंहिकरोणः ॥

Line 8 : कोपधाच्च ॥ ७९ ॥

Line 9 : ककारोपधाच्च प्रातिपदिकादणप्रत्ययो भवति चातुरर्थिकः । यथासं- Wait, is it "प्रातिपदिकादणप्रत्ययो" or "प्रातिपदिकादण्प्रत्ययो"? In L9: "प्रातिपदिकादणप्रत्ययो" (ण without virama, just as in L4 "रोणीशब्दादणप्रत्ययो").

Line 10 : भवमर्थसंबन्धः क्लृप्तलक्षणस्योवर्णलक्षणस्य चाञोऽप

३१२ ॥ काशिका ॥ ४ ॥ २ ॥

विनता * । यवनत । त्रिकुघास । छहस् । अवयास † । मौद्गल्य । कृशाश्वादिः ॥ ऋश्यादिभ्यः कः प्रत्ययो भवति । ऋश्यकः । न्योधकः । ऋश्य । न्योध । शिरा । निर्लीन । निवास । निधान । निवात । निबद्ध । विबद्ध । परिगूढ । उपगूढ । उत्तराश्मन् । स्थूलबाहु । खदिर । शर्करा । अनडुह् । परिवंश । वेणु । क्षीरप ‡ । ऋश्यादिः ॥ कुमुदादिभ्यष्ठच्प्रत्ययो भवति । कुमुदिकम् । शर्करिकम् । कुमुद । शर्करा । न्योध । इत्कट § । गर्त्त । बीज । अश्वत्थ । बल्यज । परिवाप । शिरीष । यवाष । कूप । विकङ्कत ॥ । कुमुदादिः ॥ काशादिभ्य ष्टिलः प्रत्ययो भवति । काशिलम् । वाशिलम् । काश । वाश । अश्वत्थ । पलाश । पीयूष । विश ¶ । तृण । नर । चरण । कईम । कर्पूर । कण

॥ काशिका ॥ ४ ॥ २ ॥ ३१३ ॥ विरह । नासिका । संकाशादिः ॥ बलादिभ्यो यः प्रत्ययो भवति । बल्यः । कुल्यम् । बल । मुज । तुल । उल । डुल । कलस । वन । कुल । बलादिः ॥ पत्तादिभ्यः फक् प्रत्ययो भवति । पात्तायनः । तैषायनः । पत्त । तुष । शण्ड । काकलिक । चित्र । अश्मन् । अलिस्वन् । पथिन्यन्थ च । * पत्तादिः ॥ कणी- दिभ्यः फिञ्प्रत्ययो भवति । कार्णायनिः । वासिष्ठायनिः । कर्ण । वसिष्ठ । अलुश । अल । हुप्रद । आनडुह । पाञ्चजन्य । स्थिरा । कुलिश । कुम्भी । जीवन्ती । जित्व । आयडीधत † । कर्णादिः ॥ सुतङ्गमादिभ्य इञ्प्रत्ययो भवति । सौतङ्गमिः । मौनिचित्तिः । सुतङ्गम । मुनिचित्त । विप्रचित्त । महापुच्छ । श्वेत । गंडिक । शृङ्ग । शिय । बीजवापिन् । श्वन् । आर्जुन । अजिर । जीव । सुत- ङ्गमादिः ॥ प्रमदिग्वादिभ्यो ञ्यः प्रत्ययो भवति । प्रागम्व्यम् । प्रमदिन् । प्रम- दिन् । शरदिन् । कलिव । सडिव । गड्डिव । चूहार । मार्जार । कोविदार । प्रमद्वादिः ॥ वराहादिभ्यः कक् प्रत्ययो भवति । वाराहकम् । पालाशकम् । वराह । पलाश । शिरीष । पिन्नहु । स्थूण । विदग्ध । विजग्ध । विभग्न । बाहु । खदिर । शर्करा ‡ । वराहादिः ॥ कुमुदादिभ्यष्ठक् प्रत्ययो भवति । कौमुदिकम् । कुमुद । गोमय । रथकार । दशग्राम । अश्वत्थ । शाल्मली । कुण्डल । मुनिस्थूल । कूट । मुचुकर्ण § । कुमुदादिः ॥ शिरीषशब्दो ऽरीहणा- दिषु कुमुदादिषु वराहादिषु च पठ्यते, चौत्सर्गिकोपि तत इष्यते, तस्य च वर- हादिषु दर्शनाल्लुब्भवति । तथा चोक्तं शिरीषाणामदूरभवो ग्रामः शिरीषा, स्तस्य वनं, शिरीषवनमिति ॥ जनपदे लुप् ॥ ८१ ॥ देशे तन्नाम्नीति यश्चातुरर्थिकः प्रत्ययो भवति, तस्य देशविशेषे जनपदे ऽभिधेये लुब्भवति । ग्रामसमुदायो जनपदः । पञ्चालानां निवासो जनपदः, पञ्चालाः कुरवः । मत्स्याः । अङ्गाः । वङ्गाः । मगधाः । सुह्माः । पुण्ड्राः । इह कस्मान्न भवति । उदुम्बरा अस्मिन्सन्ति, औदुम्बरो जनपदः, वैदिशो ‖ जनपद, इति । तन्नाम्नीति वर्तते । न चात्र लुबन्तं तन्नामधेयं भवति ॥ वरणादिभ्यश्च ॥ ८२ ॥

  • कुम्भ । शौरज । सीरक । शरक । शलक । सरस । समल । रोमन् । लोमन् । शंखका । लोमक । सकृण्डक । अस्तिबल । यमल । हस्त । सिंहक । एते शब्दा अत्र गणे ऽधिकाः पुस्तकान्तरे ।
  • अर्क । लूप । स्फिक् । प्लाक्षत् । एते शब्दा अत्र गणे ऽधिकाः । ‡ विनष्ट । निखष्ट । विक्रष्ट । मूल । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे । § कुन्द । मधुकर्ण । सुचिकर्ण । शिरीष । इते ऽधिका अत्र पुस्तकान्तरे । ‖ वैदश इति पा० २ ।