काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 311, कुल 828 में से
संदर्भ में पढ़ेंनुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्व चिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते स प्रगाथनात्मकवर्णगानाद्वा प्रगाथ इत्युच्यते ॥ छन्दसः प्रत्ययविधाने नपुंसके स्वार्थेउपसंख्यानम् ॥ * ॥ त्रैष्टुभमेव त्रैष्टुभम्। जागतम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ५६ ॥ सोस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते । प्रथमासमर्थविशेषणं, प्रयोजनं योद्धारश्च । प्रत्ययार्थविशेषणं संग्रामः । प्रयोजनवाचिभ्यो योद्धृवाचि- भ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यो ऽस्येति षष्ठ्यर्थे संग्रामे ऽभिधेये यथाविहितं प्रत्ययो भवति । भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः । सौभद्रः । गैरिमित्रः । योद्धृभ्यः । अह्निमाला योद्धारो ऽस्य संग्रामस्य, आह्रिमालः । स्यन्दनाश्वः । भारतः । संग्रामइति किम् ।