भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 310, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 310

॥ काशिका ॥ ४ ॥ २ ॥ ३०५

श्चेत्स भवति । विषयशब्दो बह्वर्थः । क्व चित्ग्रामसमुदाये वर्तते, विषयो लब्ध इति । क्व चिदिन्द्रियार्थे, चक्षुर्विषयो रूपमिति । क्व चिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयो ऽनुवाक इति । क्व चिदन्यत्राभावे, मत्स्यानां विषयो जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः, शैबः । चौड्रः । देशइति किम् । देवदत्तस्य विषयो ऽनुवाकः ॥ राजन्यादिभ्यो वुञ् ॥ ५३ ॥ राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशश्चेत्येतस्मिन्नर्थे । अणोपवादः । राजन्यानां विषयो देशः, राजन्यकः । दैवयानकः । आकृतिगण- श्चायम् । मालवानां विषयो देशः, मालवकः । वैराटकः । नैगर्तकः । राजन्य । दैवयान । शाल्ङ्कायन । जालन्धरायण । आत्मकामेय । आम्बरीषपुत्र । वसाति । बैल्ववन । शैलूष । उदुम्बर । बैल्वल । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ * ॥ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ५४ ॥ भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ प्रत्ययौ भवतो विषयो देशइत्येतस्मिन्विषये । अणोपवादः । भौरिकिविधः । वैपेयविधः । ऐषुकार्यादिभ्यः । ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि । वैपेय । भोलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक । शैलूयत । बैकयत । भौरिक्यादिः ॥ ऐषुकारि । सारस्यायन । चान्द्रायण । द्वाक्षायण । त्र्यायण । औडायन । जौलायन । खाडायन । सौवीर । दास- मिति । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्क्ष्यायक । नौधायण । सायण्ड । शौण्डि । वैश्वमानव । वैश्वधेनव । नद । तुण्डदेव । विश्रदेव † ॥ सोस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ५५ ॥ स इति समर्थविभक्तिः । अस्येति प्रत्ययार्थः । आदिरिति प्रकृतिविशे- षणम् । इतिकरणो विवक्षार्थः । छन्दस इति प्रकृतिनिर्देशः । प्रगाथेष्विति प्रत्ययार्थविशेषणम् । स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्येति निर्दिष्टं प्रगाथा- श्चेत्ते भवन्ति, इतिकरणस्ततश्चेद्विवक्षा । पङ्क्तिरादिरस्य, पाङ्क्तः प्रगाथः । आनु- ष्टुभः । जागतः । आदिरिति किम् । अनुष्टुम्मध्यमस्य प्रगाथस्य । छन्दस इति किम् । उदुत्यञ्छब्द आदिरस्य प्रगाथस्य । प्रगाथेष्विति किम् । पङ्क्तिरादिरस्या-

  • आप्रीत । अव्रोड । वैतिल । वात्रक । एते ऽधिकाः पुस्तकान्तरे । † अलायत । औलालायत । शैयण्ड । भयायण्ड । वैश्वदेव । एते शब्दा अधिकाः पुस्त- कान्तरे । २०