भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 308, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 308

अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये कपोतानां समूहः, कापोतम् । मायूरम् । तैत्तिरम् ॥ खण्डिकादिभ्यश्च ॥ ४५ ॥ खण्डिका इत्येवमादिभ्यः शब्देभ्यो ऽञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्डिकानां समूहः, खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोऽत्र पठ्यते । क्षुद्रकाश्च मालवाश्चेति क्षत्रियद्वन्द्वः । ततः पूर्वेणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् । ननु च पर- त्वादञा वुञ् बाधिष्यते । न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिर- त्रास्ति । एवं तर्हि एतञ् ज्ञापयति वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तद- न्तविधिरस्तीति । प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति । वानह- स्तिकं गौधेनुकमिति च तदन्तविधिः । क्षुद्रकमालवादित्येतावता योगविभा- गेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासं- ज्ञायामिति । क्षुद्रकमालवात्सेनासंज्ञायामेवाञ्भवति । क्षौद्रकमालवी सेना । क्षौद्रकमालवकमन्यतत् * । अञ्सिद्धिरनुदात्तादेः को ऽर्थः क्षुद्रकमालवात् । गोत्राद्वुञ् न च तद्गोत्रं तदन्तान्न च सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः । सेनायां नियमार्थे च यथा बाध्येत चाञ् वुञा ॥ खण्डिका । वडवा ॥ क्षुद्रकमालवात्सेनासंज्ञायाम् ॥ भितुक । शुक । उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध ॥ चरणेभ्यो धर्मवत् ॥ ४६ ॥ चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति । गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चर- णाद्धर्माम्नाययोरिति, तेन धर्मवदित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः । कठानां धर्मः, काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्व- णम् । तथा समूहेपि । काठकम् । कालापकम् । छान्दोग्यम् । औक्थक्यम् । आथर्वणम् † ॥

  • गोत्रलक्षणो वुञेव भवतीत्यधिकं पुस्तकान्तरे । † ननु धर्मे न कोपि प्रत्ययो विधास्यते, कथं धर्मवदित्यतिदेशः। एतदेव ज्ञापयति वार्तिककारो गोत्रचरणाद्वुञित्यस्मिन्प्रकरणे सर्वशेषत्वेन 'चरणाद्धर्माम्नाययोरिति वक्ष्यति' तस्म- न्मतः पाणिनेरप्यभिमतमिति । इत्यधिकमेकस्मिन्पुस्तके ॥