काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 307, कुल 828 में से
संदर्भ में पढ़ें३०२ ॥ काशिका ॥ ४ । २ ॥ गोत्रोष्ट्रोरभ्रराजन्यराजपुत्रवत्सम- नुष्याजाद् वुञ् ॥ ३९ ॥ गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । अप- त्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं न तु पौत्रप्रभृत्येत्र । औप- गवानां समूहः, औपगवकम् । कापटवकम् । उत्तन् । औत्तकम् । उष्ट्र । औष्ट्र- कम् । उरभ्र । औरभ्रकम् । राजन् । राजकम् । राजन्य । राजन्यकम् । राज- पुत्र । राजपुत्रकम् । वत्स । वात्सकम् । मनुष्य । मानुष्यकम् । अज । आज- कम् । "प्रकृत्या ऽके राजन्यमनुष्ययुवान" इति यलोपो न भवति आपत्यस्य च तद्धिते नातीति ॥ वृद्धाच्चेति वक्तव्यम् ॥ * ॥ वृद्धानां समूहो, वार्द्धकम् ॥ केदाराद्यञ् ॥ ४० ॥ केदारशब्दाद् यञ्प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्ये- तस्मिन्विषये । अचित्तलक्षणस्य ठञो ऽपवादः । केदाराणां समूहः, कैदार्यम् । कैदारकम् ॥ गणिकायाश्च यद्वक्तव्यः ॥ * ॥ गणिकानां समूहो, गाणिक्यम् ॥ ठञ् कवचिनश्च ॥ ४१ ॥ कवचिन्शब्दाट्ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । कव- चिनां समूहः, कावचिकम् । चकारः केदारादित्यस्यानुकर्षणार्थः केदाराणां समूहः, कैदारिकम् ॥ ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ब्राह्मणादिभ्यः शब्देभ्यो यन्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि- षये । नकारः स्वरार्थः । ब्राह्मणानां समूहो, ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ यन्प्रकरणे पृष्ठादुपसंख्यानम् ॥ * ॥ पृष्ठानां समूहः, पृष्ठ्यः ॥ अह्नः खः क्रतौ ॥ * ॥ अह्नां समूहो, ऽहीनः क्रतुः । क्रताविति किम् । आह्नः । सखण्डिकादिषु दर्श- नादञ्भवति ॥ पर्श्वा णस्वक्तव्यः ॥ * ॥ पर्शूनां समूहः, पार्श्वम् । पदसंज्ञकत्वाद् गुणो न भवति ॥ वातादूलः ॥ * ॥ वातानां समूहो, वातूलः* ॥ ग्रामजनबन्धुसहायेभ्यस्तल् ॥ ४३ ॥ ग्रामादिभ्यस्तल्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विषये । ग्रामाणां समूहः, ग्रामता । जनता । बन्धुता । सहायता ॥ गजाच्चेति वक्तव्यम् ॥ * ॥ गजानां समूहो, गजता ॥ अनुदात्तादेरञ् ॥ ४४ ॥
- वातादित्यारभ्यः वातूल इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति ।