काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 306, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । २ ॥ ३०१
रखे तदस्मिन्वर्ततइति नवयज्ञादिभ्य उपसंख्यानम् ॥ * ॥ नवयज्ञोऽस्मिन्वर्तते, नावयज्ञिकः कालः । पाक्यज्ञिकः ॥ पूर्णमासादण् ॥ * ॥ पूर्णमासो ऽस्यां वर्तते पौर्णमासी तिथिः ॥ पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः प्रत्ययः प्रत्ययार्थो ऽनुबन्ध इति सर्वं निपातनाद्विज्ञेयम् । पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलच् इत्येतौ प्रत्ययौ निपात्येते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । ताभ्यां पितरि डामहच्, मातरि षिच्च । ताभ्यामेव पितरि डामहच् प्रत्ययो भवति । पितुः पिताः, पितामहः । मातुः पिता, मातामहः । मातरि षिच्च । पितामही । मातामही ॥ अवेर्दुग्धे सोढदूसमरोसचो वक्तव्याः ॥ * ॥ अवेर्दुग्धम्, अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलाच्चिष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ ॥ * ॥ निष्फलस्तिल, स्तिलपिञ्जः । तिलपेजः ॥ पिञ्जश्छन्दसि डित्वं ॥ * ॥ तिलिपञ्जः ॥ तस्य समूहः ॥ ३७ ॥ तस्येति षष्ठीसमर्थात्समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । किमिहोदाहरणम् । चित्तवदाद्युदात्तमगोत्रं यस्य च नान्यत्प्रतिपदं ग्रहणम् । अचित्ताट्ठकं वक्ष्यति, अनुदात्तादेरञ्, गोत्राद्वुञ्, प्रतिपदं च केदाराञ्जञ्वेत्येव- मादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम् । काकानां समूहः, काकम् । बाकम् । इनित्रकद्वयचश्चेति यावत्समूहाधिकारः ॥ गुणादिभ्यो ग्रामज्वक्तव्यः ॥ * ॥ गुण- ग्रामः । करणग्रामः । गुण । करण । तत्त्व । शब्द । इन्द्रिय । आकृतिगणः* ॥ भिक्षादिभ्यो ऽण् ॥ ३८ ॥ भिक्षेत्येवमादिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन्वि- षये । अण ग्रहणं बाधकबाधनार्थम् । भिक्षाणां समूहो, भैक्षम् । गर्भिणम् । युव- तिशब्दोऽत्र पठ्यते, तस्य यञ्लुक्सामर्थ्याद् पुंवद्भावो न भवति भस्याढे तद्धितेऽति । युवतीनां समूहो, यौवतम् । भिक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । धर्मिन् † । सहस्र । युवति । पदाति । पद्धति । अथर्वन् ‡ । दक्षिणा । भूत § ॥
- गुणादिभ्य इत्यारभ्याकृतिगण इत्यन्तः पाठो बहुषु पुस्तकेषु नास्ति । † चर्मन् । धर्मन् । इति पा० ४ । ‡ अर्वन् । इति पा० २ । § विषय । योत्र ॥ सूत्रातिथ्यः खण्डः ॥ युक्तखण्डः । तक्षकखण्डः । वृक्ष । तरु । पाद- प । इत्याधिकमत्र पुस्तकद्वये । तत्रै कस्मिन् पुस्तके "वृक्षादिभ्यः खण्डप्रत्ययो भवति । वृक्षखण्डः तरुखण्डः" । इति पा० ३ ।