काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 305, कुल 828 में से
संदर्भ में पढ़ें३०० काशिका ॥ ४ ॥ २ ॥ महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मि- न्विषये । महेन्द्रो देवतास्य महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥ सोमाट् ट्यण् ॥ ३० ॥ सोमशब्दात् ट्यण्प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोपवादः । णकारो वृद्धयर्थः । टकारो ङीबर्थः । सोमो देवतास्य सौम्यं हविः । सौम्यं सूक्तम् । सौमी ऋक् ॥ वाय्वृतुपित्रुषसो यत् ॥ ३१ ॥ वाय्वादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति सास्य देवतेत्येतस्मिन्विषये । अणोपवादः । वायुर्देवतास्य वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् ॥ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च ॥ ३२ ॥ द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणो ण्यस्य चापवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य, द्यावापृथि- वीयम् । द्यावापृथिव्यम् । शुनश्च सीरश्च तौ देवते अस्येति, शुनासीरीयम् । शुनासीर्यम् । शुनो वायुः । सीर आदित्यः । मरुत्वान्देवतास्य, मरुत्वतीयम् । मरुत्वत्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ अग्नेर्ढक् ॥ ३३ ॥ अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन्विषये । अणोप- वादः अग्निर्देवतास्य, आग्नेयो ऽष्टाकपालः ॥ प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्व- त्राग्निकलिभ्यां ढग्वक्तव्यः ॥ * ॥ कालेभ्यो भववत् ॥ ३४ ॥ कालविशेषवाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति सास्य देवतेत्यस्मि- न्विषये । कालाट्ठञिति प्रकरणे भवे प्रत्यया विधास्यन्ते ते सास्य देवतेत्यस्मि- न्नर्थे तथेष्यन्ते, तदर्थमिदमुच्यते । वत्करणं सर्वसादृश्यपरिसङ्ख्यार्थम् । मासे भवं मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा, मासो देवतास्य, मासिकम् । षाण्मासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ॥ महाराजप्रोष्ठपदाट्ठञ् ॥ ३५ ॥ महाराजशब्दात्प्रोष्ठपदशब्दाच्च ठञ् प्रत्ययो भवति सास्य देवतेत्य- स्मिन्विषये । महाराजो देवतास्य माहाराजिकम् । प्रौष्ठपदिकम् ॥ ठञ्प्रक-