भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 32, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 32

॥ काशिका ॥ १ ॥ २ ॥ २५ तेभ्यो गाङ्कुटादिभ्यः परे ऽञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद्भवन्तीत्यर्थः । गाङः । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । कुटादिभ्यः । कुटिता । कुटि- तुम् । कुटितव्यम् । उत्पुटिता । उत्पुटितुम् । उत्पुटितव्यम् । अञ्णिदिति किम् । उत्कोटयति । उच्चुकोट । उत्कोटकः । उत्कोटो वर्त्तते ॥ व्यचेः कुटादित्व- मनसीति वक्तव्यम् ॥ * ॥ विचिता । विचितुम् । विचितव्यम् । अनसीति किम् । उव्व्यचाः ॥ विज इट् ॥ २ ॥ ओविजी भयचलनयोः, अस्मात्पर इडादिः प्रत्ययो ङिद्वद्भवति । उद्वि- जिता । उद्विजितुम् । उद्विजितव्यम् । इडिति किम् । उद्वेजनम् । उद्वेजनीयम् ॥ विभाषोर्णोः ॥ ३ ॥ इडिति वर्तते