काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 33, कुल 828 में से
संदर्भ में पढ़ें२६ ॥ काशिका ॥ १ ॥ २ ॥ शीनां तु रलो व्युपधादिति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिषित्वा । उदित्वा । उषित्वा ॥ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ ८ ॥ रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः । रुदविदमुषीणां रलो व्युपधादिति विकल्पे प्राप्ते नित्यार्थं ग्रहणम् । ग्रहेर्विध्य- र्थमेव । स्वपिप्रच्छ्योः संनर्थं ग्रहणम् । किदेव हि क्त्वा । उदित्वा । रुरुदिषति । विदित्वा । विविदिषति । मुषित्वा । मुमुषिषति । गृहीत्वा । जिघृक्षति । सुप्त्वा । सुषुप्सति । पृष्ट्वा । पिपृच्छिषति । ग्रहादीनां कित्त्वात्संप्रसारणं भवति । किरश्च पञ्चभ्य इति प्रच्छेरिडागमः ॥ इको झल् ॥ ९ ॥ [L1