काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 320, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ २ ॥ ३१५ र्थिकः । कुमुद्वान् । नड्वान् । वेतस्वान् ॥ महिषाच्चेति वक्तव्यम् ॥ * ॥ महि- षाणाम देशः ॥ नडशादाड् ड्वलच् ॥ ८८ ॥ नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थसं- बन्धः । नड्वलम् । शाद्वलम् ॥ शिखाया वलच् ॥ ८९ ॥ शिखाशब्दाद्वलच् प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थसंबन्धः । शिखावलं नामनगरम् । मतुप्प्रकरणेपि शिखाया वलञ् वक्ष्यति । तददेशार्थं वचनम् ॥ उत्करादिभ्यश्छः ॥ ९० ॥ उत्कर इत्येवमादिभ्यश्छः प्रत्ययो भवति चातुरर्थिकः । यथासंभवमर्थ- संबन्धः । उत्करीयम् । शफरीयम् । उत्कर । संफल * । शफर । पिप्पल । पिप्प- लीमूल । अश्मन् । अर्क । पर्ण । सुपर्ण । खलाजिन । रहा । अग्नि । तिक । कितव । आतप । अनेक । पलाश । सुशव । पिचुन्द । अश्वत्थ । शकात्तुङ्गु । भस्त्रा । विशाला । अवरोहित । गर्त्त । शाल । अन्य । अन्या । अजिन । मञ्च । चर्मन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । बक । नितान्त । वृत्त । इन्द्रवृत्त । आर्द्रवृत्त । अर्जुनवृत्त । उत्करादिः ॥ नडादीनां कुक् च ॥ ९१ ॥ नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः । यथा- संभवमर्थसंबन्धः । नडकीयम् । प्लक्षकीयम् । नड । प्लक्ष । बिल्व । वेणु । वेत्र । वेतस । तृण । इक्षु । काष्ठ । कपोत ॥ क्रुञ्चाया ह्रस्वत्वं च ॥ तत्तचलोपश्च ॥ शेषे ॥ ९२ ॥ शेषइत्यधिकारोयम् । यानिह ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेर्थे ते वेदि- तव्याः । उपयुक्तादन्यः शेषः । अपत्यादिभ्यश्चतुर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः, तस्मिं- र्ढविशेषा ह्यपत्यसमूहादयस्तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते। किं च सर्वेषु जातादिषु घादयो यथा स्युरनन्तरेणैवार्थादेशेन संबन्धित्वेन कृतार्थता मा ज्ञायीति साकल्यार्थं शेषवचनम् । वक्ष्यति । राष्ट्रावारपाराद् घखौ । राष्ट्रियः । अवारपारीणः । शेषइति लक्षणं चाधिकारश्च । चक्षुषा गृह्यते, चाक्षुषं रूपम् । श्रावणः शब्दः † । दृषदि पिष्टाः, दार्षदा सक्तवः । उलूखले सुतः, औलूखलो
- संकर । इति पा० २ । † श्रावणो रसः । स्पार्शनः स्पर्शः । इत्येकस्मिन्पुस्तके ऽधिकम् ।