भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 321, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 321

३१६ ॥ काशिका ॥ ४ । २ ॥ याश्वर्कः । आश्वैरुह्यते, आश्वो रथः । चतुर्भिर्वाह्यते, चातुरं शकटम् । चतुर्दश्यां दृश्यते, चातुर्दशं रक्ष इति ॥ राष्ट्रावारपाराद् घखौ ॥ ९३ ॥ राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः । राष्ट्रियः । अवारपारीणः ॥ विगृहीतादपीष्यते ॥ अवारीणः । पारीणः ॥ विप- रीताच्च ॥ पारावारीणः । प्रकृतिविशेषोपादानमात्रेण तावत्प्रत्यया विधीयन्ते । तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद्वक्ष्यन्ते ॥ ग्रामाद्यखञौ ॥ ९४ ॥ ग्रामशब्दाद्य खञ् इत्येतौ प्रत्ययौ भवतः । ग्राम्यः । ग्रामीणः ॥ कत्र्यादिभ्यो ढकञ् ॥ ९५ ॥ कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति । कात्रियेकः । श्रौम्भेयकः । कत्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । वञ्जी । भक्ति । माहिष्मती । चर्मण्वती * । ग्राम । उख्या ॥ कुल्याया यलोपश्च कत्र्यादिः ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ॥ ९६ ॥ कुलकुक्षिग्रीवाशब्देभ्यो यथासंख्यं श्वन् असि अलंकार इत्येतेषु जाता- दिष्वर्थेषु ढकञ् प्रत्ययो भवति । कौलेयको भवति श्वा चेत् । कौलेयः । कौक्षेयको भवत्यसिश् चेत् । कौक्षेयः । ग्रैवेयको भवत्यलंकारश्चेत् । ग्रैवेयः नद्यादिभ्यो ढक् ॥ ९७ ॥ नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति । नादेयम् । माहेयम् । नगरीशब्दोऽत्र पठ्यते । पौर्वनगरेयम् । के चित् पूर्वनगिरीति पठन्ति, विशेषात् च प्रत्ययं कुर्वन्ति । पौरेयम् । वानेयम् । गैरियमिति । तदुभयमपि दर्श- नप्रमाणम् । नदी । मही । वाराणसो । श्रावस्ती । कौशाम्बी । नवकौशाम्बी काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दावी । दात्वी । वासेनकी ॥ वडवाया वृषे ॥ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः । दाक्षि- णात्यः । पाश्चात्यः । पौरस्त्यः । कापिश्याः ण्फक् ॥ ९९ ॥

  • चर्मती । इति पा० २ ।