काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 324, कुल 828 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into pure, clean Devanagari Markdown:
भवति शैषिकः । उदीच्यग्रामलक्षणस्याञोऽपवादः । माद्रीप्रस्थः । माहकीप्रस्थः । पलद्यादिभ्यः । पालदः । पारिषदः । ककारोपधात् । नैलीनकः । चैयातकः * । पलद्यादिषु यो वाहीकग्रामस्ततश्छण्ठञोरपवादः । यथा । गोष्ठी, नैतकी- ति † । गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचामिति वुञोपवादः । वाही- कशब्दः कोपधोऽपि पुनः पठ्यते परं छं बाधितुम् । अण्ग्रहणम् बाधकबा- धनार्थम् । पलदी । परिषत् । यकृल्लोमन् । रोमक । कालकूट । पटच्चर । वाहीक । फलकीट । मलकीट । कमलकीट । कमलभिदा । कमलकीर । बाहुकीट । नैतकी । परिखा । शूरसेन ॥ गोमती । उदयान ‡ । पलद्यादिः ॥ कण्वादिभ्यो गोत्रे ॥ १११ ॥ गोत्रमिह न प्रत्य