भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 325, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 325

३२० ॥ काशिका ॥ ४ ॥ २ ॥ गोत्रइति नानुवर्त्तते । सामान्येन विधानम् । वृद्धात्प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । गार्गीयः । वात्सीयः । शालीयः । मालीयः । अव्ययतीररूपयोत्तरपदोदीच्यामकोपधाद्विधौस्तु परत्वादूबाध्यते ॥ भवतष्ठक्छसौ ॥ ११५ ॥ वृद्धादित्येव । भवच्छब्दाद् वृद्धात् ठक्छसौ प्रत्ययौ भवतः शैषिकौ । छस्यापवादौ । सकारः पदसंज्ञार्थः । भवतस्त्यदादित्वाद् वृद्धसंज्ञा । भावत्कः । भवदीयः । अवृद्धात्तु भवतः शतुरणैव भवति । भावतः ॥ काश्यादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ काशि इत्येवमादिभ्यष्ठञ् ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ । इकार उच्चारणार्थः । ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः । स्त्रीप्रत्यये विशेषः । काशिकी । काशिका । वैदिकी । वैदिका । वृद्धादित्यनुवर्त्तते, ये त्ववृद्धाः पठ्यन्ते वचनप्रामाण्यात्तेभ्यः प्रत्ययविधिः । देवदत्तशब्दः पठ्यते तस्य एङ् प्राचां देशइति वृद्धसंज्ञा । दैवदत्तिकः । वाहीकग्रामस्य तु नास्ति वृद्धसंज्ञा । दैवदत्तः । कथं भाष्यउदाहृतं वा नामधेयस्य वृद्धसंज्ञा वेदितव्या देवदत्तीया दैवदत्ता इति, यावता वृद्धसंज्ञापत्ते काश्यादित्वात् ठञ्जिठाभ्यां भवितव्यम् । तत्रैवं वर्णयन्ति वा नामधेयस्येति व्यवस्थितविभाषेयं, सा छे कर्त्तव्ये भवति ठञ्जिठयोर्न भवतीति । काशि । चेदि * । संज्ञा । संवाह । अच्युत । मोह- मान । शकुलाद । हस्तिकर्षू । कुदामन् † । हिरण्य । करण । गोधाशन मौरिकि । मौलिहि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज । उपराज । सिन्धुमित्र । देवराज ॥ आपत्- कादिपूर्वपदात्कालान्तात् ॥ आपत्कालिकी । आपत्कालिका । और्ध्वकालिकी । और्ध्वकालिका । तात्कालिकी । तात्कालिका ॥ वाहीकग्रामेभ्यश्च ॥ ११७ ॥ वृद्धादित्येव । वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्जिठौ प्रत्ययौ भवतः शैषिकौ । छस्यापवादौ । शाकलिकी । शाकलिका । मान्त्विकी । मान्त्विका ॥ विभाषोशीनरेषु ॥ ११८ ॥ वृद्धादिति वर्तते, वाहीकग्रामेभ्य इति च । उशीनरेषु ये वाहीकग्रामास्त- द्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यो विभाषा ठञ्जिठौ प्रत्ययौ भवतः । आहुजासि- की। आहुजालिका। आहुजालीया। सौदर्शनिकी। सौदर्शनिका। सौदर्शनीया ॥

  • चेदीति पा० २ । † कुनामन्निति पा० २ ।