काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 326, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ २ ॥ ३२१ ओर्देशे ठञ् ॥ ११९ ॥ वृद्धादिति नानुवर्त्तते । उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्ताद् देश- वाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः । नैवादर्कुकः । शाबर- जम्बुकः * । देश इति किम् । पटोश्छात्राः, पाटवाः । ठञिठञोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम् ॥ वृद्धात्प्राचाम् ॥ १२० ॥ ओर्देशे इत्येव । उवर्णान्ताद् वृद्धात्प्राग्देशवाचिनः प्रातिपदिकाट्ठञ् प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः † । नापितवासुकः । पूर्वेणैव ठञि सिद्धे नियमार्थं वचनं वृद्धादेव प्राचामवृद्धाच्च भवतीति । मल्ल- वास्तु । माल्लवास्त्वः ॥ धन्वयोपधाद्बुञ् ॥ १२१ ॥ वृद्धादिति वर्तते, देशइति च । धन्ववाचिनो यकारोपधाच्च देशाभि- धायिनो वृद्धात्प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेश- वचनः । पारेधन्वकः । ऐरावतकः । योपधात् । सांकाश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ वृद्धादित्येव, देशइति च । अन्तशब्दः प्रत्येकमभिसंबद्ध्यते । प्रस्थ पुर वह इत्येवमन्ताद्देशवाचिनः प्रातिपदिकाद्वृद्धाद्वुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्तो रोपधस्तत उत्तरसूत्रेणैव सिद्धमप्रागर्थमिह ग्रहणम् ॥ रोपधेतोः प्राचाम् ॥ १२३ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं प्राग्ग्रहणम् । रोपधादीकारा- न्ताच्च प्राग्देशवाचिनो वृद्धाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । पाट- लिपुत्रकः । एकचक्रकः । ईतः खल्वपि । काकन्दी । काकन्दकः । माकन्दी । माकन्दकः । प्राचामिति किम् । दात्तामित्रीयः । तपरकरणं विस्पष्टार्थम् ॥ जनपदतदवध्योश्च ॥ १२४ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं जनपदतदवधी । वृद्धाज्जनपद- वाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्याप- वादः । आभिसारकः । आर्देशकः । जनपदावधेः खल्वपि । चौपुष्टकः । श्यामा-
- केष इति कृत्य इत्याधिकमेकस्मिन्पुस्तके । † शाकलजम्बुक इति पा० २ । २१