भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

॥ काशिका ॥ ४ ॥ २ ॥ ३२१ ओर्देशे ठञ् ॥ ११९ ॥ वृद्धादिति नानुवर्त्तते । उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्ताद् देश- वाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः । नैवादर्कुकः । शाबर- जम्बुकः * । देश इति किम् । पटोश्छात्राः, पाटवाः । ठञिठञोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम् ॥ वृद्धात्प्राचाम् ॥ १२० ॥ ओर्देशे इत्येव । उवर्णान्ताद् वृद्धात्प्राग्देशवाचिनः प्रातिपदिकाट्ठञ् प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः † । नापितवासुकः । पूर्वेणैव ठञि सिद्धे नियमार्थं वचनं वृद्धादेव प्राचामवृद्धाच्च भवतीति । मल्ल- वास्तु । माल्लवास्त्वः ॥ धन्वयोपधाद्बुञ् ॥ १२१ ॥ वृद्धादिति वर्तते, देशइति च । धन्ववाचिनो यकारोपधाच्च देशाभि- धायिनो वृद्धात्प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेश- वचनः । पारेधन्वकः । ऐरावतकः । योपधात् । सांकाश्यकः । काम्पिल्यकः ॥ प्रस्थपुरवहान्ताच्च ॥ १२२ ॥ वृद्धादित्येव, देशइति च । अन्तशब्दः प्रत्येकमभिसंबद्ध्यते । प्रस्थ पुर वह इत्येवमन्ताद्देशवाचिनः प्रातिपदिकाद्वृद्धाद्वुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्तो रोपधस्तत उत्तरसूत्रेणैव सिद्धमप्रागर्थमिह ग्रहणम् ॥ रोपधेतोः प्राचाम् ॥ १२३ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं प्राग्ग्रहणम् । रोपधादीकारा- न्ताच्च प्राग्देशवाचिनो वृद्धाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । पाट- लिपुत्रकः । एकचक्रकः । ईतः खल्वपि । काकन्दी । काकन्दकः । माकन्दी । माकन्दकः । प्राचामिति किम् । दात्तामित्रीयः । तपरकरणं विस्पष्टार्थम् ॥ जनपदतदवध्योश्च ॥ १२४ ॥ वृद्धादित्येव, देशइति च । तद्विशेषणं जनपदतदवधी । वृद्धाज्जनपद- वाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्याप- वादः । आभिसारकः । आर्देशकः । जनपदावधेः खल्वपि । चौपुष्टकः । श्यामा-

  • केष इति कृत्य इत्याधिकमेकस्मिन्पुस्तके । † शाकलजम्बुक इति पा० २ । २१

३२२ ॥ काशिका ॥ ४ ॥ २ ॥ यनकः । तदवधिरपि जनपद एव गृह्यते न ग्रामः । किमर्थं तर्हि ग्रहणं, बाध- कबाधनार्थं गर्त्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति । नैर्गर्त्तकः ॥ अवृद्धादपि बहुवचनविषयात् ॥ १२५ ॥ जनपदतदवध्योरित्येव । अवृद्धाद्वृद्धाच्च जनपदात्तद्वधिवाचिनश्च बहु- वचनविषयात्प्रातिपदिकाद्वुञ् प्रत्ययो भवति शैषिकः । अण्कञ्योरपवादः । अवृद्धाज्जनपदात्तावत् । अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज्जनपदावधेः । अजमीढाः । अजक्रन्दाः । आजमीठकः । आजक्रन्दकः । वृद्धाज्जनपदात् । दार्वीः । जाम्ब्वः । दार्वकः । जाम्ब्वकः । वृद्धाज्जनपदावधेः । कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः । विषयग्रहणमन्यत्र भावार्थम् । जनपदैकशेषबहुत्वे मा भूत् । वर्तन्यः । वार्त्तनः * । अपिग्रहणं किम् । यावता वृद्धात्पूर्वेणैव सिद्धं तक्रकौण्डिन्यन्या- येन बाधा मा विज्ञायीति समुच्चीयते ॥ कच्छाग्निवक्त्रगर्त्तोत्तरपदात् ॥ १२६ ॥ देशइत्येव । उत्तरपदशब्दः प्रत्येकमभिसंबध्यते । कच्छाद्युत्तरपदाद्देश- वाचिनः प्रातिपदिकाद्वृद्धादवृद्धाच्च वुञ् प्रत्ययो भवति शैषिकः । काद्यो-

॥ काशिका ॥ ४ ॥ २ ॥ ३२५ यातः । तीर्थे ॥ कूलात्सौवीरेषु ॥ समुद्रादणाव मनुष्ये च ॥ कुक्षि । अन्तरीप । द्वीप । अह्व। । उज्जयिनी । दक्षिणापथ । साकेत * ॥ नगरात्कुत्सनप्रावीण्‍ययोः ॥ १२८ ॥ नगरशब्दाद्वुञ् प्रत्ययो भवति शैषिकः कुत्सने प्रावी्‍ण्‍ये च गम्यमाने । प्रत्ययार्थविशेषणं चैतत् । कुत्सने प्रावीण्‍ये च जातादौ प्रत्ययार्थेऽति कुत्सनं निन्दनम् । प्रावीण्‍यं नैपुण्यम् ॥ केनायं मुषितः पन्था गात्रे भस्मालिधूसरः । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । चौरा हि नागरका भवन्ति । केनेदं लिखितं चित्रं मनोनेत्रविकासि यत् । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । प्रवीणा हि नागरका भवन्ति । कुत्सनप्रावीण्‍ययोरिति किम् । नागरा ब्राह्मणाः । कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात्संज्ञानगरं पठ्यते, तस्मिन्नागरेयकमिति प्रत्युदाहार्यम् ॥ अरण्यान्मनुष्ये ॥ १२९ ॥ अरण्यशब्दाद्वुञ् प्रत्ययो भवति शैषिको मनुष्ये ऽभिधेये । औपसंख्या- निकस्य णास्यापवादः । आरण्यको मनुष्यः ॥ पथ्यध्यायन्‍यायविहारमनुष्यहस्ति- ष्विति वक्तव्यम् ॥ * ॥ आरण्यकः पन्थाः । आरण्यको ऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यकोहस्ती ॥ वा गोम- येषु ॥ * ॥ आरण्या आरण्यका गोमयाः । एतेष्विति किम् । आरण्याः । पशवः ॥ विभाषा कुरुयुगन्धराभ्याम् ॥ १३० ॥ कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । जनपदशब्दावेतो ताभ्यामवृद्धादपीति नित्ये वुञि प्राप्ते विकल्प उच्यते । कुरुशब्दः कच्छादिष्वपि पठ्यते तत्र वचनादणपि भविष्यति । परिशेष्याद्युगन्धरार्था विभाषा † । मनुष्यतस्थ्योस्तु कुरुशब्दाभि- त्येववुञ् प्रत्ययो भवति । कौरवको मनुष्यः, कौरवकमस्य हसितमिति ॥ मद्रवृज्योः कन् ॥ १३१ ॥ मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । मद्रेषु जातः, मद्रकः । वृजिकः ॥ कोपधादण् ॥ १३२ ॥

  • मानवस्ती । वस्तो । सुराज्ञी । इते ऽत्र गणे ऽधिकाः कुत्र चित् † शेषा युगन्धरार्था विभाषा । पा० २ ।

३२४ काशिका ॥ ४ । २ ॥ देशइत्येव । ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेणैव कोपधादणि सिद्धम् । ऋषिकेषु जातः, आर्षिकः । माहिषिकः । अण्ग्रहणमुवर्णान्तादपि स्यात् । इक्ष्वाकुषु जातः, ऐक्ष्वाकः ॥ कच्छादिभ्यश्च ॥ १३३ ॥ देशइत्येव । कच्छ इत्येवमादिभ्यो देशवाचिभ्यो ऽण् प्रत्ययो भवति शैषिकः । वुञादेरपवादः । काच्छः । सैन्धवः । वार्णवः । कच्छशब्दो न बहुवचनविषयस्तस्य मनुष्यतत्स्थयोर्वुञर्थः पाठः । विजापकशब्दः पठ्यते । तस्य कोपधत्वादेवाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अण्ड * । खण्ड । द्वीप । अनूप । अजवाह । विजापक । कुलून । कच्छादिः ॥ मनुष्यतत्स्थयोर्वुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छा- दिभ्यो वुञ् प्रत्ययो भवति । अणोऽपवादः । काच्छको मनुष्यः । काच्छकमस्य हसितं जल्पितम् । काच्छिका चूडा । सैन्धवको मनुष्यः । सैन्धवकमस्य हसितं जल्पितम् । सैन्धविका चूडा । मनुष्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवो वार्णवः ॥ अपदात्तौ साल्वात् ॥ १३५ ॥ साल्वशब्दः कच्छादिषु पठ्यते ततः पूर्वेणैव मनुष्यतत्स्थयोर्वुञि सिद्धे नियमार्थं वचनम् । अपदातावेव मनुष्ये मनुष्यस्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति । साल्वको मनुष्यः । साल्वकमस्य हसितं जल्पितम् । अपदाताविति किम् । साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ॥ १३६ ॥ गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति शैषिकः । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्त्तोत्तरपदाच्छः ॥ १३७ ॥ देशइत्येव । गर्त्तोत्तरपदाद्देशवाचिनः प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । वाहीकग्रामलक्षणं तु प्रत्ययं परत्वाद्व्याधते । वृकग- र्त्तीयम् । शृगालगर्त्तीयम् । श्वाविद्गर्त्तीयम् । उत्तरपदग्रहणं । बहुपूर्वन्निरासा- र्थम् । बाहुगर्त्तम् ॥

  • अयण्ड इति पा० २ ।

॥ काशिका ॥ ४ । २ ॥ ३२५ गहादिभ्यश्च ॥ १३८ ॥ गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अञो- रपवादः * । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि संभवापेक्षं विशेषणं न सर्वे- षाम् । मध्यमध्यमं चाण् चरणइति पठ्यते, तस्यायमर्थः । मध्यशब्दः प्रत्ययसन्नि- योगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययार्थे ऽण् भवति, माध्यमो दिति । तदेतद्विशेषएव स्मर्यते पृथिवीमध्यस्य मध्यमभावः । चरणसंबन्धेन निवा- सलक्षणो ऽणिति च ॥ मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् ॥ कुग्ज- नस्य परस्य च ॥ * ॥ जनकीयम् । परकीयम् ॥ देवस्य चेति वक्तव्यम् ॥ * ॥ देव- कीयम् ॥ वेणुकादिभ्यश्छण्वक्तव्यः ॥ आकृतिगणोयम् । वेणुकीयम् । वैणुकी- यम् । औत्तरपदकीयम् । प्रास्थकीयम् †। माध्यमकीयम् । गह अन्तःस्थ । सम । विषम ॥ मध्यमध्यमं चाण्चरणे ॥ उत्तम । अङ्गु । वङ्गु । मगध । पूर्वपक्ष । अपर- पक्ष । अधमशाख । उत्तमशाख । समानशाख । एकयाम । एकवृत्त । एकपलाश । इष्वग्र । इष्वनी ‡ । शवस्यन्दी § । कामप्रस्थ । खाडायनि ॥ । कावेरणि ¶ । जैह्विरि । शौङ्गि । आसुरि । आर्हंसि । आमिचि । व्याडि । वैदजि । भौजि । बाहुश्र्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति । आरटकि । वाल्मीकि । चेमवृद्धित् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥ जनपरयोः । कुक् च ॥ देवस्य च ॥ वेणुकादिभ्यश्छण् ॥ गहादिः ॥ प्राचां कटादेः ॥ १३६ ॥ देशइत्येव । तद्विशेषणं प्राग्ग्रहणम् । प्राग्देशवाचिनः कटादेः प्रातिप- दिकाच् छः प्रत्ययो भवति शैषिकः । अञोपवादः । कटनगरीयम् । कटघो- षीयम् । कटपल्लवीयम् ॥ राज्ञः क च ॥ १४० ॥ असंभावाद्देशाधिकारो न विशेषणम् । राज्ञः ककारश्चान्तादेशो भवति छश्च प्रत्ययः । राजकीयम् । आदेशमात्रमिह विधेयं प्रत्ययस्तु वृद्धाच्छ इत्येव सिद्धः ॥ वृद्धादकेकान्तखोपधात् ॥ १४१ ॥

  • अञादेरण्बाधः । पा० २ । † प्रास्थीयम् । पा० २ । ‡ इष्वनीक । पा० २ । § शवस्कन्द । पा० २ । ॥ खाण्डायनी । पा० २ । ¶ कामवेरणि । पा० २ ।

३२६ ॥ काशिका ॥ ४ ॥ २ ॥ देशइत्येव । वृद्धाद्देशवाचिनो ऽक इक इत्येवमन्तात् खकारोपधाच्च प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । कोपधलक्षणस्याणोपवादः । वाही- कग्रामलक्षणस्य च प्रत्ययस्य रोषधेतोः प्राचामिति च । अकान्तात्तावत् । आरोहणकीयम् । द्रौघणकीयम् । इकान्तात् । आश्वपथिकीयम् । शाल्मलि- कीयम् । खोपधात् । कौटिशिखीयम् । त्रायोमुखीयम् ॥ अकेकान्तग्रहणे कोपध- ग्रहणं सौसुकाद्यर्थम् ॥ * ॥ सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ कन्यापलदनगरग्रामह्रदोत्तरपदात् ॥ १४२ ॥ देशइत्येव, वृद्धादिति च । कन्याद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिप- दिकात् छः प्रत्ययो भवति शैषिकः । वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः । दात्तिकन्तीयम् । माह

॥ काशिका ॥ ४ ॥ ३ ॥ ३२७. देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः । चकाराच्छश्च । अन्यतरस्यां ग्रहणाद्यथाप्राप्तम् । तदेते त्रयः प्रत्यया भवन्ति तत्र वैषम्याद्यथासंख्यं न भवति । त्यदादित्वाद्वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते । यौष्माकीणः । आस्माकीनः । युष्मदीयः । अस्मदीयः । यौष्माकः । आस्माकः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ २ ॥ तस्मिन्निति साक्षाद्विहितः खञ् निर्दिश्यते न चकारानुकृष्टश्छः । तस्मिन्खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक आस्माक इत्येतावादेशौ भवतः । निमित्तयोरादेशौ प्रति यथासंख्यं कस्मान्न भवति । योगविभागः करिष्यते, तस्मिन् । खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः । ततो ऽणि चेति । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । तस्मिन्नणि चेति किम् । युष्मदीयः । अस्मदीयः ॥ तवक ममकावेकवचने ॥ ३ ॥ एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवतो यथासं- ख्यं तस्मिन्खञि अणि च परतः । निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति । ननु च न लुमतानङ्गस्येति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति । वचनात्प्रत्ययलक्षणं भविष्यति * । अथ वा नैवेदं प्रत्ययलक्षणं किं तर्ह्यन्वर्थग्रहणम् । एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावा- देशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः । मामकीनः । तावकः । मामकः । तस्मिन्नणि चेत्येव । त्वदीयः, मदीयः ॥ अर्द्धाद्यत् ॥ ४ ॥ अर्द्धशब्दाद् यत् प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्द्धम् । सपू- र्वपदाट्ठञ्वक्तव्यः ॥ * ॥ बालेयार्द्धिकम् । गौतमार्द्धिकम् ॥ परावराधमोत्तमपूर्वाच्च ॥ ५ ॥ पर अवर अधम उत्तम इत्येवं पूर्वाच्चार्द्धशब्दात् प्रत्ययो भवति शैषिकः । परार्द्धम् । अवरार्द्धम् । अधमार्द्धम् । उत्तमार्द्धम् । पूर्वग्रहणं किम् । परावरा- धमोत्तमेभ्य इत्येवोच्येत, अर्द्धादिति वर्तते । तस्य तत्पूर्वता विज्ञास्यते । परा- वरशब्दावदिग्ग्रहणावपि स्तः, परं सुखमवरं सुखमिति । तत्र कृतार्थत्वाद दिक्शब्दत्वात् परे ठञ्छौ स्याताम्, तस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति परा- र्द्धमवरार्द्धमिति ॥

  • वचनात्प्रत्ययलक्षणप्रतिषेधो न संभवति । पा० २ ।

३२८ ॥ काशिका ॥ ४ ॥ ३ ॥ दिक्पूर्वपदाट्ठञ् ॥ ६ ॥ दिक्पूर्वपदादर्द्धान्तात्प्रातिपदिकात् ठञ् प्रत्ययो भवति चकाराद्वाऽण् शैषिकः । अणोऽपवादः । पूर्वार्द्धम् । पौर्वार्द्धिकम् । दक्षिणार्द्धम् । दाक्षिणा- र्द्धिकम् । पदग्रहणं स्वरूपविधिनिवारणार्थम् ॥ ग्रामजनपदैकदेशादञ्ठञौ ॥ ७ ॥ दिक्पूर्वपदादित्येव । ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्राति- पदिकाद्दिक्पूर्वपदादर्द्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ यतोपवादौ । इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः पौर्वार्द्धिकाः । दाक्षिणार्द्धाः दाक्षिणार्द्धिकाः ॥ मध्यान्मः ॥ ८ ॥ मध्यशब्दान्मः प्रत्ययो भवति शैषिकः । अणोऽपवादः । मध्यमः आदेश्चेति वक्तव्यम् ॥ * ॥ आदिमः ॥ अवोध

॥ काशिका ॥ ४ ॥ ३ ॥ ३२८ विभाषा रोगातपयोः ॥ १३ ॥ शरद इत्येव । रोगे आतपे चाभिधेये शरच्छब्दाट्ठञ् प्रत्ययो वा भवति शैषिकः । खञोऽपवादः । शारदिको रोगः । शारदिक आतपः । शारदो रोगः । शारद आतपः । रोगातपयोरिति किम् । शारदं दधि ॥ निशाप्रदोषाभ्यां च ॥ १४ ॥ निशाप्रदोषशब्दाभ्यां विभाषा ठञ् प्रत्ययो भवति शैषिकः । कालाट्ठञिति नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशम् । नैशिकम् । प्रादोषम् । प्रादोषिकम् ॥ श्वसस्तुट् च ॥ १५ ॥ विभाषेत्येव । श्वःशब्दाद्विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति । त्यप्प्रत्ययोऽप्यतो विहित ऐषमोह्यःश्वोन्यतरस्यामिति । एताभ्यां मुक्ते ट्युट्युलावपि भवतः । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥ संधिवेलाद्यृतुनक्षत्रेभ्यो ऽण् ॥ १६ ॥ कालादित्येव संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् । संधिवेलादिभ्यस्तावत् । सांधिवेलम् । सांध्यम् । ऋतुभ्यः । ग्रैष्मम् । शैशि- रम् । नक्षत्रेभ्यः । तैषम् । पौषम् । संधिवेला । संध्या । अमावास्या । त्रयो- दशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपत् ॥ संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ प्रावृष एण्यः ॥ १७ ॥ प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । छञोऽपवादः । प्रावृषेण्यो बलाहकः ॥ वर्षाभ्यष्ठक् ॥ १८ ॥ वर्षाशब्दाट्ठक् प्रत्ययो भवति शैषिकः । छञोऽपवादः । वार्षिकं वासः । वार्षिकमनुलेपनम् ॥ छन्दसि ठञ् ॥ १९ ॥ वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । ठकोऽपवादः । स्वरे भेदः । नभश्च नभस्यश्च वार्षिकावृतू ॥ वसन्ताच्च ॥ २० ॥ छन्दसीत्येव । वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । छञोऽपवादः । मधुश्चमाधवश्च वासन्तिकावृतू ॥

३३० ॥ काशिका ॥ ४ । ३ ॥ हेमन्ताच्च ॥ २१ ॥ छन्दसीत्येव। हेमन्तशब्दात् छन्दसि विषये ठञ् प्रत्ययो भवति शैषि- कः। ऋत्वणोऽपवादः। सहश्च सहस्यश्च हैमन्तिकावृतू। योगविभाग उत्तरार्थः॥ सर्वत्राण् च तलोपश्च ॥ २२ ॥ हेमन्तशब्दादण् प्रत्ययो भवति तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद्भवति। ननु च छन्दसीति नानुवर्तिष्यते। सैवानुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति भाषा- यामपि ठञं स्मरन्ति। अथाण् चेति चकारः किमर्थः। अण् यथाप्राप्तं च ऋत्व- णिति, कः पुनरनयोर्विशेषः। ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्ति- [L12

॥ काशिका ॥ ४ ॥ ३ ॥ ३३१ प्रावृषष्टप् ॥ २६ ॥ प्रावृट्शब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे टप् प्रत्ययो भवति । एण्यस्यापवादः । पकारः स्वरार्थः । प्रावृषि जातः, प्रावृषिकः ॥ संज्ञायां शरदो वुञ् ॥ २७ ॥ शरच्छब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोपवादः समुदायेन चेत्संज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्गाः । दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा । संज्ञायामिति किम् । शारदं सस्यम् । संज्ञाधिकारं के चित्‘कृतलब्धक्रीतकुशला’ इति यावदनुवर्तयन्ति ॥ पूर्वाह्नापराह्लाद्रा॑मूलप्रदोषावस्कराद्वुन् ॥ २८ ॥ पूर्वाह्नादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन्वि- षये संज्ञायां गम्यमानायाम् । पूर्वाह्णक

३३२ ॥ काशिका ॥ ४ । ३ ॥ सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येत- स्मिन्विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ॥ श्रविष्ठा फल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशा- खाषाढाबहुलाल्लुक् ॥ ३४ ॥ श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग्भवति । तस्मिं- स्त्रोप्रत्ययस्यापि लुक्तद्धितलुकीति भवति । श्रविष्ठासु जातः, श्रविष्ठः । फल्गु- नः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । आषाढः । बहुलः ॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ॥ * ॥ चित्रा- यां जाता, चित्रा । रेवती । रोहिणी । स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वात् ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ॥ * ॥ फल्गुनी ॥ अषाढा ॥ श्रविष्ठा- षाढाभ्यां छणपि वक्तव्यः ॥ * ॥ श्राविष्ठीयः । आषाढीयः ॥ स्थानान्तगोशालखरशालाच्च ॥ ३५ ॥ स्थानान्तात्प्रातिपदिकाद् गोशालशब्दात्खरशालशब्दाच्चातार्थे प्रत्य- यस्य लुग्भवति । गोस्थाने जातः, गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ॥ वत्सशालाभिजिदश्वयुक्शतभिषजो वा ॥ ३६ ॥ वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति । वत्सशा- लायां जातः, वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । बहुलग्रहणस्यायं प्रपञ्चः ॥ नक्षत्रेभ्यो बहुलम् ॥ ३७ ॥ नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः । रौहिणः । मृगशिराः । मार्गशीर्षः ॥ कृतलब्धक्रीतकुशलाः ॥ ३८ ॥ तत्रेत्येव । सप्तमीसमर्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा, स्रौघ्नः । माथुरः । राष्ट्रियः । ननु च यदत्र कृतं जातमपि तत्र भवति यच्च यत्र क्रीतं लब्धमपि त

॥ काशिका ॥ ४ ॥ ३ ॥ ३३३ प्रायेण बाहुल्येन भवति, स्रौघ्नः । मायुरः । राष्ट्रियः । प्रायग्रहणमनर्थकं, सम्भवेन कृतत्वात् । अनित्यभवः प्रायभव इति चेद् मुक्तासंशयेन तुल्यम् ॥ उपजानूपकर्णोपनीवेष्ठुक् ॥ ४० ॥ उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन्विषये ठक् प्रत्ययो भवति । अणोपवादः । औपजानुकः । औपकणिकः । औपनीविकः ॥ संभूते ॥ ४१ ॥ तत्रेत्येव । सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् संभूत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । अवक्लृप्तिः प्रमाणानतिरेकश्च संभवत्यर्थे इह गृह्यते नोत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात् । स्रुघ्ने संभवति, स्रौघ्नः । मायुरः । राष्ट्रियः । कोशाड्ढञ् ॥ ४२ ॥ [L

३३४ ॥ काशिका ॥ ४ । ३ ॥ तत्रेत्येव, कालादिति च। सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्देय- मित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयमृणं चेत्तद्भवति। मासे देयमृणं, मासिकम्। आर्द्धमासिकम्। सांवत्सरिकम्। ऋणइति किम्। मासे देया भिक्षा॥ कलाप्यश्वत्थयवबुसाद्वुन् ॥ ४८ ॥ कालादित्येव। कलापि अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्त- मीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात्काले वर्तन्ते। यस्मिन्काले मयूराः कलापिनो भवन्ति स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन्यवबुसं संपद्यते स यवबुसशब्देनो- च्यते। कलापिनि काले देयमृणं, कलापकम्। अश्वत्थकम्। यवबुसकम्॥ ग्रीष्मावरसमाद्वुञ् ॥ ४९ ॥ ग्रीष्मावरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयमृणइत्येतस्मिन्नर्थे अण्ठञोरपवादः। ग्रीष्मे देयमृणं, ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्धयर्थम्। समाशब्दो वर्षपर्यायः॥ संवत्सराग्रहायणीभ्यां ठञ् ॥ ५० ॥ संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद्वुञ् च देयमृण- मित्येतस्मिन्नर्थे। संवत्सरे देयमृणं, सांवत्सरिकम्। सांवत्सरकम्। आग्रहाय- णिकम्। आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु संवत्सरात्फ- लपर्वणोरिति पठ्यते, तत्र फले छ्प्रत्ययेन विवक्षिते ऽणं बाधित्वा ठञेव यथा स्यादिति॥ व्याहरति मृगः ॥ ५१ ॥ तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात्प्रातिपदिकाद् व्याहरति मृग इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति। निशायां व्याह- रति मृगः, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः। मृग इति किम्। निशायां व्याहरत्युलूकः॥ तदस्य सोढम् ॥ ५२ ॥ कालादित्येव। तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं सोढञ्चेत्तद्भवति, सोढं जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्रस्य, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः॥ तत्र भवः ॥ ५३ ॥ कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ड्याप्प्रातिपदिकाद्भव

॥ काशिका ॥ ४ । ३ ॥ ३३५ इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते न जन्म, तत्र जात इति गतार्थत्वात् । स्रुघ्ने भवः, सौघ्नः । माथुरः । राष्ट्रियः । पुन- स्तत्रग्रहणं तदस्येति निवृत्त्यर्थम् ॥ दिगादिभ्यो यत् ॥ ५४ ॥ दिग् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति तत्र भव इत्येत- स्मिन्विषये । अणाञ्छस्य चापवादः । दिशि भवं, दिश्यम् । वर्ग्यम् । मुखजघन- शब्दयोश्शरीरावयवार्थः पाठः, सेनामुख्यं, सेनाजघन्यमिति * । दिग् । वर्ग । पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । मुख । जघन । मेध । यूथ ॥ उदकात्संज्ञायाम् † ॥ न्याय । वंश । अनुवंश । विश । काल । कूप । आकाश । दिगादिः ॥ शरीरावयवाच्च ॥ ५५ ॥ शरीरं प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकाद् यत्प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञोऽपवादः । दन्तेषु भवं, दन्त्यम् । कण्ठ्यम् । ओष्ठ्यम् ॥ दूतिकुञ्चिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ५६ ॥ दूत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मि- न्विषये । दूतौ भवं, दौतेयम् । कौञ्चेयम् । कालशेयम् । वास्तेयम् । आस्ते- यम् । आहेयमजरं विषम् । अस्तिशब्दः प्रातिपदिकं, न तिङन्तः ॥ ग्रीवाभ्यो ऽण् च ॥ ५७ ॥ ग्रीवाशब्दादण्प्रत्ययो भवति चकाराड्ढञ् च, तत्र भव इत्येतस्मिन्वि- षये, शरीरावयवात्प्राप्तोऽपवादः । ग्रीवासु भवं, ग्रैवेयम् । ग्रैवम् । ग्रीवाशब्दो धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतम् । गम्भीराञ्ञ्यः ॥ ५८ ॥ गम्भीरशब्दात् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञो- पवादः । गम्भीरे भवं, गाम्भीर्यम् ॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ॥ * ॥ बाह्यम् । दैव्यम् । पाञ्चजन्यम् ‡ ॥

  • मुखजघनाभ्यां सेनाया अग्रभागपश्चाद्भागावुच्येते इत्याधिकः पाठः कुत्र चित्पुस्तके । † उदकात्संज्ञायामित्यस्याग्रे उदक्या रजस्वला । संज्ञायामिति किम् । औदको मत्स्यः । इत्याधिकं पुस्तकान्तरे । ‡ चातुर्मास्यादञो ञ्यो वक्तव्यः ॥ * ॥ चातुर्मास्यानि व्रतानि । चातुर्मास्यो यज्ञः । चातुर्मासो ग्रन्थः । इत्याधिकं बहुषु पुस्तकेषु ।

३३६ ॥ काशिका ॥ ४ । ३ ॥ अव्ययीभावाच्च ॥ ५९ ॥ अव्ययीभावसंज्ञकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति तत्र भव इत्येत- स्मिन्विषये । अणोपवादः । न च सर्वस्मादव्ययीभावाद्भवति, किं तर्हि परि- मुखादेः, परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनं तेषां विशेषणमव्ययीभा- वग्रहणम् । परिमुखं भवं, पारिमुख्यम् । पारिहनव्यम् । परिमुखादेरन्यत्र न भवति । औपकूलम् । परिमुख । परिहनु । पर्योष्ठ । पर्युष्ठू । औपमूल । खल । परिसोर । अनुसोर । उपसोर । उपस्थल । उपकलाप । अनुपथ । अनु- खङ्ग । अनुतिल । अनुशीत । अनुमाष । अनुयव । अनुयूप । अनुवंश * ॥ अन्तःपूर्वपदाट्ठञ् ॥ ६० ॥ अव्ययीभावादित्येव । अन्तःशब्दो विभक्त्यर्थे समस्यते, तत्पूर्वपदाद- व्ययीभावाट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अणोपवादः आन्तर्वेश्मिकम् । आन्तर्गेहिकम् † ॥ समानशब्दाट्ठञ् वक्तव्यः ॥ * ॥ समाने भवं सामानिकम् ॥ तदादेश्च ॥ * ॥ समानग्रामिकम् । समानदेशिकम् । अध्यात्मादिभ्यश्च ॥ * ॥ आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् ‡ । अध्यात्मादिराकृतिगणः ॥ ऊर्ध्वदमाच्च ठञ् वक्तव्यः ॥ * ॥ और्ध्वदमिकः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वदमशब्दः ॥ ऊर्ध्वदेहाच्च ॥ * ॥ और्ध्वदेहिकम् ॥ * ॥ लोकोत्तरपदाच्च ॥ * ॥ ऐहलौकिकम् । पारलौकिकम् ॥ मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः ॥ * ॥ मुखतीयम् । पार्श्वतीयम् ॥ जनप- रयोः कुक्च ॥ * ॥ जनकीयम् । परकीयम् ॥ मध्यशब्दादीयः ॥ * ॥ मध्यीयः ॥ मणमीयौ च प्रत्ययौ वक्तव्यौ ॥ * ॥ माध्यमम् । मध्यमीयम् ॥ मध्यो मध् दिनण् चास्मात् ॥ * ॥ मध्ये भवं, माध्यन्दिनम् ॥ स्याम्नो लुग्वक्तव्यः ॥ * ॥ आश्वत्थामा ॥ अजिनान्ताच्च ॥ * ॥ वृकाजिनः । सिंहाजिनः ॥ समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । ऊर्ध्वदमाच्च देहाच्च लोकोत्तरपदस्य च ॥ मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मणमीयौ प्रत्ययो तथा ॥ मध्यो मध्यं दिनण् चास्मात्स्याम्नो लुगजिनात्तथा ॥ ग्रामात्पर्य्यनुपूर्वात् ॥ ६१ ॥

  • अनुस्वङ्ग । पुस्तकान्तरे अयं शब्दोऽधिकोऽत्र गणे । † आन्तरगारिकम् । इत्यधिकं पुस्तकान्तरे । ‡ अनुशतिकादीनां चेषूभयपदवृद्धिचरितार्थिकं कुत्र चित् ।

An exact line-by-line transcription of the provided page of the Kāśikā (४ । ३, पृष्ठ ३३७):

अव्ययीभावादित्येव। यामशब्दान्तादव्ययीभावात्परि अनु इत्येवंपूर्वा- ट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये। अणोऽपवादः। पारियामिकः। आनुयामिकः॥ जिह्वामूलाङ्गुलेश्छः ॥ ६२ ॥ जिह्वामूलशब्दादङ्गुलिशब्दाच्च छः प्रत्ययो भवति तत्र भव इत्येतस्मि- न्विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्॥ वर्गान्ताच्च ॥ ६३ ॥ वर्गशब्दान्ताच्च प्रातिपदिकात् छः प्रत्ययो भवति तत्र भव इत्येत- स्मिन्विषये। यञोऽपवादः। कवर्गीयम्। चवर्गीयम्॥ अशब्दे यत्खावन्तरस्याम् ॥ ६४ ॥ वर्गान्तादित्येव। शब्दादन्यस्मिन्नन्त्ययार्थे वर्गान्तात्प्रातिपदिकादन

३३८ ॥ काशिका ॥ ४ ॥ ३ ॥ रेषान्तोदात्ताः प्रकृतयः। बह्वच इति किम्। द्वयचष्टकं वक्ष्यति। एकाच् प्रत्यु- दाह्रियते। सौपम्। तैदम्। कार्नम्। अन्तोदात्तादिति किम्। संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ॥ ऋतुयज्ञेभ्यश्च ॥ ६८ ॥ ऋतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयो- रर्थयोष्ठञ् प्रत्ययो भवति। अणोपवादः। ऋतुभ्यस्तावत्। अग्निष्टोमस्य व्या- ख्यानस्तत्र भवो, वाग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः। पाक- यज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। ऋतुभ्य इत्येव सिद्धे यज्ञ- ग्रहणमसामयागेभ्योपि यथा स्यात्, पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम् ॥ अध्यायेष्वर्षेः ॥ ६६ ॥ ऋषिशब्दाः प्रवरनामधेयानि तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोर्थे- योष्ठञ् प्रत्ययो भवति। अणोपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम इत्यनुवर्तते तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम्। वासिष्ठी ऋक् ॥ पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥ पौरोडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डास्तेषां संस्कारको मन्त्रः पौरोडाशस्तस्य व्याख्या- नस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरो- डाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। णकारो ङीबर्थः ॥ छन्दसो यद्णौ ॥ ७१ ॥ छन्दःशब्दाद्भवव्याख्यानयोरर्थयोर्यद्णौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छन्दस्यः। छान्दसः ॥ द्व्यजुद्ब्राह्मणर्चप्रथमध्वरपुरश्चरणना- माख्याताट्ठक् ॥ ७२ ॥ द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयो- र्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्, ऐष्टिकः। पाशुकः। उकारान्तात्। चातुर्होत्रुकः। पाञ्चहोत्रुकः। ब्राह्मण। ब्राह्मणिकः। ऋक्। आर्चिकः। प्रथम। प्राथमिकः। अध्वर। आध्वरिकः। पुरश्चरण। पौरश्चर-

॥ काशिका ॥ ४ । ३ ॥ ३३६ ष्णिकः । नामाख्यातग्रहणं संघातविगृहीतार्थम् । नामिकः । चाख्यातिकः । नामाख्यातिकः ॥ ऋगयनादिभ्यः ॥ ७३ ॥ ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोर्थयोरण् प्रत्ययो भवति । ठञादेरपवादः । आर्गयनः, । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्याः । ऋगयन । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति । न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । उत्पाद । संवत्सर । मुहूर्त्त । निमित्त । उपनिषत् । शिक्षा * । ऋगयनादिः ॥ तत आगतः ॥ ७४ ॥ तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भव- ति । सुघ्नादागतः सौघ्नः । माथुरः । राष्ट्रियः । तत इति मुख्यमपादानं विव- क्षितं यत्तदिह गृह्यते, न नान्तरीयकम् । सुघ्नादागच्छन्वृक्षमूलादागत इति ॥ ठगायस्थानेभ्यः ॥ ७५ ॥ आय इति स्वामिग्राह्यो भाग उच्यते स यस्मिन्नुत्पद्यते तदायस्थानम् । आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मि- न्विषये, अणोपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः, शौल्क- शालिकः । आकरिकम् † । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ शुण्डिकादिभ्यो ऽण् ॥ ७६ ॥ शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । आयस्थानठको ऽपवादः । शुण्डिकादागतः, शौण्डिकः । कार्कणः । अण्ग्रहणं बाधकबाधनार्थम् । चौदपानः । शुण्डिक । कर्कश । स्थ- ण्डिल । उदपान । उपल । तीर्थ । भूमि । मुख । पर्ण । शुण्डिकादिः ॥ विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७७ ॥ विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः । तद्वाचिभ्यः शब्दे- भ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । अणोपवादः । छं तु पर- त्वाद्बाधते । विद्यासंबन्धेभ्यस्तावत् । उपाध्यायादागतम्, औपाध्यायकम् । शैष्य- कम् । आचार्यकम् । योनिसंबन्धेभ्यः । मातामहकः । पैतामहकः । मातुलकः ‡ ॥


  • छन्दोविचिती । न्याय । निरुक्त । विद्या । उत्पात । शिक्षा । एते शब्दा अधिक अत्र गणे पुस्तकान्तरे । † नागरिकम् । आपक्तिकम् । इत्यपि कुत्र चित्पुस्तके । ‡ मातुलक इत्युदाहरणं बहुषु पुस्तकेषु नास्ति ।

३४० ॥ काशिका ॥ ४ ॥ ३ ॥ ऋतष्ठञ् ॥ ७८ ॥ विद्यायोनिसंबन्धेभ्य इत्येव । ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायो- निसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । वुञोप- वादः । विद्यासंबन्धवाचिभ्यस्तावत् । होतुरागतं, हौतृकम् । पोतृकम् । योनि- संबन्धवाचिभ्यः । भ्रातृकम् । स्वसृकम् । मातृकम् । तपरकरणं सुखार्थम् । विद्यायोनिभ्यामन्यत्र सावित्रम् ॥ पितुर्यच्च ॥ ७९ ॥ पितृशब्दाद् यत् प्रत्ययो भवति चकाराट्ठञ् च तत आगत इत्येतस्मिन्वि- षये । पितुरागतं, पित्र्यम् । पैतृकम् ॥ गोत्रादङ्कवत् ॥ ८० ॥ अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते । गोत्रप्रत्यया- न्तात्प्रातिपदिकादङ्कवत्प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन्विषये । अङ्क- ग्रहणेन तस्येदम्प्रत्ययसामान्यं लक्ष्यते । तस्माद्वुञतिदिश्यते * नाम्नेव संघाङ्कलक्ष- णेष्वञ्यञिञामणिति । औपगवानामङ्कः, औपगवकः । कापटवकः । नाडाय- नकः । चारायणकः । एवमौपगवेभ्य आगतमौपगवकम् । कापटवकम् । नाडा- यनकम् । चारायणकम् ॥ हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ॥ ८१ ॥ हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येत- स्मिन्विषये । मनुष्यग्रहणमहेत्वर्थम् । हेतुः कारणम् । हेतुभ्यस्तावत् । समादा- गतं, समरूप्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच् छः । मनुष्येभ्यः । देवदत्तरूप्यम् । यज्ञदत्तरूप्यम् । दैवदत्तम् । याज्ञदत्तम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ मयट् च ॥ ८२ ॥ हेतुभ्यो मनुष्येभ्यश्च मयट् प्रत्ययो भवति तत आगत इत्येतस्मिन्वि- षये । सममयम् । विषममयम् । मनुष्येभ्यः । देवदत्तमयम् । यज्ञदत्तमयम् । टकारो ङीबर्थः । सममयी । योगविभागो यथासंख्यनिरासार्थः ॥ प्रभवति ॥ ८३ ॥ तत इत्येव । पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात्प्रभवतीत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति । प्रभवति प्रकाशते प्रथमत उपलभ्यतइत्यर्थः । हिमवतः प्रभवति, हैमवती गङ्गा । दारदी सिन्धुः ॥

  • गोत्रचरणाद्वुञ् इतीत्यधिकं पुस्तकान्तरे ।