काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 329, कुल 828 में से
संदर्भ में पढ़ें३२४ काशिका ॥ ४ । २ ॥ देशइत्येव । ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेणैव कोपधादणि सिद्धम् । ऋषिकेषु जातः, आर्षिकः । माहिषिकः । अण्ग्रहणमुवर्णान्तादपि स्यात् । इक्ष्वाकुषु जातः, ऐक्ष्वाकः ॥ कच्छादिभ्यश्च ॥ १३३ ॥ देशइत्येव । कच्छ इत्येवमादिभ्यो देशवाचिभ्यो ऽण् प्रत्ययो भवति शैषिकः । वुञादेरपवादः । काच्छः । सैन्धवः । वार्णवः । कच्छशब्दो न बहुवचनविषयस्तस्य मनुष्यतत्स्थयोर्वुञर्थः पाठः । विजापकशब्दः पठ्यते । तस्य कोपधत्वादेवाणि सिद्धे ग्रहणमुत्तरार्थम् । कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अण्ड * । खण्ड । द्वीप । अनूप । अजवाह । विजापक । कुलून । कच्छादिः ॥ मनुष्यतत्स्थयोर्वुञ् ॥ १३४ ॥ कच्छादिभ्य इत्येव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छा- दिभ्यो वुञ् प्रत्ययो भवति । अणोऽपवादः । काच्छको मनुष्यः । काच्छकमस्य हसितं जल्पितम् । काच्छिका चूडा । सैन्धवको मनुष्यः । सैन्धवकमस्य हसितं जल्पितम् । सैन्धविका चूडा । मनुष्यतत्स्थयोरिति किम् । काच्छो गौः । सैन्धवो वार्णवः ॥ अपदात्तौ साल्वात् ॥ १३५ ॥ साल्वशब्दः कच्छादिषु पठ्यते ततः पूर्वेणैव मनुष्यतत्स्थयोर्वुञि सिद्धे नियमार्थं वचनम् । अपदातावेव मनुष्ये मनुष्यस्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति । साल्वको मनुष्यः । साल्वकमस्य हसितं जल्पितम् । अपदाताविति किम् । साल्वः पदातिर्व्रजति ॥ गोयवाग्वोश्च ॥ १३६ ॥ गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद्वुञ् प्रत्ययो भवति शैषिकः । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ गर्त्तोत्तरपदाच्छः ॥ १३७ ॥ देशइत्येव । गर्त्तोत्तरपदाद्देशवाचिनः प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । वाहीकग्रामलक्षणं तु प्रत्ययं परत्वाद्व्याधते । वृकग- र्त्तीयम् । शृगालगर्त्तीयम् । श्वाविद्गर्त्तीयम् । उत्तरपदग्रहणं । बहुपूर्वन्निरासा- र्थम् । बाहुगर्त्तम् ॥
- अयण्ड इति पा० २ ।