काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 328, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ २ ॥ ३२५ यातः । तीर्थे ॥ कूलात्सौवीरेषु ॥ समुद्रादणाव मनुष्ये च ॥ कुक्षि । अन्तरीप । द्वीप । अह्व। । उज्जयिनी । दक्षिणापथ । साकेत * ॥ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ नगरशब्दाद्वुञ् प्रत्ययो भवति शैषिकः कुत्सने प्रावी्ण्ये च गम्यमाने । प्रत्ययार्थविशेषणं चैतत् । कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थेऽति कुत्सनं निन्दनम् । प्रावीण्यं नैपुण्यम् ॥ केनायं मुषितः पन्था गात्रे भस्मालिधूसरः । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । चौरा हि नागरका भवन्ति । केनेदं लिखितं चित्रं मनोनेत्रविकासि यत् । इह नगरे मनुष्येण संभाव्यतएतन्नागरकेण । प्रवीणा हि नागरका भवन्ति । कुत्सनप्रावीण्ययोरिति किम् । नागरा ब्राह्मणाः । कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात्संज्ञानगरं पठ्यते, तस्मिन्नागरेयकमिति प्रत्युदाहार्यम् ॥ अरण्यान्मनुष्ये ॥ १२९ ॥ अरण्यशब्दाद्वुञ् प्रत्ययो भवति शैषिको मनुष्ये ऽभिधेये । औपसंख्या- निकस्य णास्यापवादः । आरण्यको मनुष्यः ॥ पथ्यध्यायन्यायविहारमनुष्यहस्ति- ष्विति वक्तव्यम् ॥ * ॥ आरण्यकः पन्थाः । आरण्यको ऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यकोहस्ती ॥ वा गोम- येषु ॥ * ॥ आरण्या आरण्यका गोमयाः । एतेष्विति किम् । आरण्याः । पशवः ॥ विभाषा कुरुयुगन्धराभ्याम् ॥ १३० ॥ कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । जनपदशब्दावेतो ताभ्यामवृद्धादपीति नित्ये वुञि प्राप्ते विकल्प उच्यते । कुरुशब्दः कच्छादिष्वपि पठ्यते तत्र वचनादणपि भविष्यति । परिशेष्याद्युगन्धरार्था विभाषा † । मनुष्यतस्थ्योस्तु कुरुशब्दाभि- त्येववुञ् प्रत्ययो भवति । कौरवको मनुष्यः, कौरवकमस्य हसितमिति ॥ मद्रवृज्योः कन् ॥ १३१ ॥ मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । मद्रेषु जातः, मद्रकः । वृजिकः ॥ कोपधादण् ॥ १३२ ॥
- मानवस्ती । वस्तो । सुराज्ञी । इते ऽत्र गणे ऽधिकाः कुत्र चित् † शेषा युगन्धरार्था विभाषा । पा० २ ।