भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 341, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 341

३३६ ॥ काशिका ॥ ४ । ३ ॥ अव्ययीभावाच्च ॥ ५९ ॥ अव्ययीभावसंज्ञकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति तत्र भव इत्येत- स्मिन्विषये । अणोपवादः । न च सर्वस्मादव्ययीभावाद्भवति, किं तर्हि परि- मुखादेः, परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनं तेषां विशेषणमव्ययीभा- वग्रहणम् । परिमुखं भवं, पारिमुख्यम् । पारिहनव्यम् । परिमुखादेरन्यत्र न भवति । औपकूलम् । परिमुख । परिहनु । पर्योष्ठ । पर्युष्ठू । औपमूल । खल । परिसोर । अनुसोर । उपसोर । उपस्थल । उपकलाप । अनुपथ । अनु- खङ्ग । अनुतिल । अनुशीत । अनुमाष । अनुयव । अनुयूप । अनुवंश * ॥ अन्तःपूर्वपदाट्ठञ् ॥ ६० ॥ अव्ययीभावादित्येव । अन्तःशब्दो विभक्त्यर्थे समस्यते, तत्पूर्वपदाद- व्ययीभावाट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अणोपवादः आन्तर्वेश्मिकम् । आन्तर्गेहिकम् † ॥ समानशब्दाट्ठञ् वक्तव्यः ॥ * ॥ समाने भवं सामानिकम् ॥ तदादेश्च ॥ * ॥ समानग्रामिकम् । समानदेशिकम् । अध्यात्मादिभ्यश्च ॥ * ॥ आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् ‡ । अध्यात्मादिराकृतिगणः ॥ ऊर्ध्वदमाच्च ठञ् वक्तव्यः ॥ * ॥ और्ध्वदमिकः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वदमशब्दः ॥ ऊर्ध्वदेहाच्च ॥ * ॥ और्ध्वदेहिकम् ॥ * ॥ लोकोत्तरपदाच्च ॥ * ॥ ऐहलौकिकम् । पारलौकिकम् ॥ मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः ॥ * ॥ मुखतीयम् । पार्श्वतीयम् ॥ जनप- रयोः कुक्च ॥ * ॥ जनकीयम् । परकीयम् ॥ मध्यशब्दादीयः ॥ * ॥ मध्यीयः ॥ मणमीयौ च प्रत्ययौ वक्तव्यौ ॥ * ॥ माध्यमम् । मध्यमीयम् ॥ मध्यो मध् दिनण् चास्मात् ॥ * ॥ मध्ये भवं, माध्यन्दिनम् ॥ स्याम्नो लुग्वक्तव्यः ॥ * ॥ आश्वत्थामा ॥ अजिनान्ताच्च ॥ * ॥ वृकाजिनः । सिंहाजिनः ॥ समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । ऊर्ध्वदमाच्च देहाच्च लोकोत्तरपदस्य च ॥ मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मणमीयौ प्रत्ययो तथा ॥ मध्यो मध्यं दिनण् चास्मात्स्याम्नो लुगजिनात्तथा ॥ ग्रामात्पर्य्यनुपूर्वात् ॥ ६१ ॥

  • अनुस्वङ्ग । पुस्तकान्तरे अयं शब्दोऽधिकोऽत्र गणे । † आन्तरगारिकम् । इत्यधिकं पुस्तकान्तरे । ‡ अनुशतिकादीनां चेषूभयपदवृद्धिचरितार्थिकं कुत्र चित् ।