काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 340, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । ३ ॥ ३३५ इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते न जन्म, तत्र जात इति गतार्थत्वात् । स्रुघ्ने भवः, सौघ्नः । माथुरः । राष्ट्रियः । पुन- स्तत्रग्रहणं तदस्येति निवृत्त्यर्थम् ॥ दिगादिभ्यो यत् ॥ ५४ ॥ दिग् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति तत्र भव इत्येत- स्मिन्विषये । अणाञ्छस्य चापवादः । दिशि भवं, दिश्यम् । वर्ग्यम् । मुखजघन- शब्दयोश्शरीरावयवार्थः पाठः, सेनामुख्यं, सेनाजघन्यमिति * । दिग् । वर्ग । पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । मुख । जघन । मेध । यूथ ॥ उदकात्संज्ञायाम् † ॥ न्याय । वंश । अनुवंश । विश । काल । कूप । आकाश । दिगादिः ॥ शरीरावयवाच्च ॥ ५५ ॥ शरीरं प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकाद् यत्प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञोऽपवादः । दन्तेषु भवं, दन्त्यम् । कण्ठ्यम् । ओष्ठ्यम् ॥ दूतिकुञ्चिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ५६ ॥ दूत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मि- न्विषये । दूतौ भवं, दौतेयम् । कौञ्चेयम् । कालशेयम् । वास्तेयम् । आस्ते- यम् । आहेयमजरं विषम् । अस्तिशब्दः प्रातिपदिकं, न तिङन्तः ॥ ग्रीवाभ्यो ऽण् च ॥ ५७ ॥ ग्रीवाशब्दादण्प्रत्ययो भवति चकाराड्ढञ् च, तत्र भव इत्येतस्मिन्वि- षये, शरीरावयवात्प्राप्तोऽपवादः । ग्रीवासु भवं, ग्रैवेयम् । ग्रैवम् । ग्रीवाशब्दो धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतम् । गम्भीराञ्ञ्यः ॥ ५८ ॥ गम्भीरशब्दात् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञो- पवादः । गम्भीरे भवं, गाम्भीर्यम् ॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ॥ * ॥ बाह्यम् । दैव्यम् । पाञ्चजन्यम् ‡ ॥
- मुखजघनाभ्यां सेनाया अग्रभागपश्चाद्भागावुच्येते इत्याधिकः पाठः कुत्र चित्पुस्तके । † उदकात्संज्ञायामित्यस्याग्रे उदक्या रजस्वला । संज्ञायामिति किम् । औदको मत्स्यः । इत्याधिकं पुस्तकान्तरे । ‡ चातुर्मास्यादञो ञ्यो वक्तव्यः ॥ * ॥ चातुर्मास्यानि व्रतानि । चातुर्मास्यो यज्ञः । चातुर्मासो ग्रन्थः । इत्याधिकं बहुषु पुस्तकेषु ।