काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 339, कुल 828 में से
संदर्भ में पढ़ें३३४ ॥ काशिका ॥ ४ । ३ ॥ तत्रेत्येव, कालादिति च। सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्देय- मित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयमृणं चेत्तद्भवति। मासे देयमृणं, मासिकम्। आर्द्धमासिकम्। सांवत्सरिकम्। ऋणइति किम्। मासे देया भिक्षा॥ कलाप्यश्वत्थयवबुसाद्वुन् ॥ ४८ ॥ कालादित्येव। कलापि अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्त- मीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात्काले वर्तन्ते। यस्मिन्काले मयूराः कलापिनो भवन्ति स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन्यवबुसं संपद्यते स यवबुसशब्देनो- च्यते। कलापिनि काले देयमृणं, कलापकम्। अश्वत्थकम्। यवबुसकम्॥ ग्रीष्मावरसमाद्वुञ् ॥ ४९ ॥ ग्रीष्मावरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयमृणइत्येतस्मिन्नर्थे अण्ठञोरपवादः। ग्रीष्मे देयमृणं, ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्धयर्थम्। समाशब्दो वर्षपर्यायः॥ संवत्सराग्रहायणीभ्यां ठञ् ॥ ५० ॥ संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद्वुञ् च देयमृण- मित्येतस्मिन्नर्थे। संवत्सरे देयमृणं, सांवत्सरिकम्। सांवत्सरकम्। आग्रहाय- णिकम्। आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु संवत्सरात्फ- लपर्वणोरिति पठ्यते, तत्र फले छ्प्रत्ययेन विवक्षिते ऽणं बाधित्वा ठञेव यथा स्यादिति॥ व्याहरति मृगः ॥ ५१ ॥ तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात्प्रातिपदिकाद् व्याहरति मृग इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति। निशायां व्याह- रति मृगः, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः। मृग इति किम्। निशायां व्याहरत्युलूकः॥ तदस्य सोढम् ॥ ५२ ॥ कालादित्येव। तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं सोढञ्चेत्तद्भवति, सोढं जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्रस्य, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः॥ तत्र भवः ॥ ५३ ॥ कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ड्याप्प्रातिपदिकाद्भव